________________
१५८
विजयमशस्त्याम् ।
अथ तस्मात् पातकातस्याऽवनीपतेः प्रह्लादनस्य, दुष्टं कुष्ठं रोगः, अभवत् ॥ १७ ॥
तया तस्याथ लावण्यरूपादि प्राणशद् रुजा । महसां महिमा सर्पदृशेवौकोमणेः क्षणात् ॥१८॥
तया रुजा कुष्ठाख्यरोगेण, तस्य नृपस्य लावण्यरूपादि लवणिमसौन्दर्यादिकं प्राणशत् नश्यति स्म । यथा सर्पदृशा ओकोमणेः प्रदीपस्य, महसां तेजसां, महिमेति दृष्टान्तः ॥ १८ ॥ स्वनाम्नाऽथाऽमुना राज्ञा प्रह्लादनपुरं पुरम् । वासितं पृथुलं पृथ्वीपुरन्ध्रीपुण्ड्रसन्निभम् ||१९||
अथाऽमुना राज्ञा स्वनाम्ना महादनपुरं नाम, पुरं वासितम् । किं०, पृथुलं विस्तीर्ण, पुनः किं०, पृथ्वीपुरन्ध्या महीमहि - लायाः पुण्ड्रसंनिभं तिलकतुल्यम् ।। १९ ।।
तदेनः शान्तये तेन चैत्यं पार्श्वप्रभोः पृथु । कारितं षोडशस्वर्णकपिशीर्षकशीर्षभृत् ॥ २० ॥
तत् श्रीशान्तिनाथमूर्त्तिभञ्जनलक्षणं यत् एनः पापं तस्य शान्तये शमनाय तेन राज्ञा, श्रीपार्श्वप्रभोः प्रहादनविहारइतिनामकं चैत्यं कारितम् । किं०, पृथु विशालं, पुनः किं०, षोडशस्वर्णकपिशीर्षकाण्येव शीर्षाणि शिरांसि विभर्तीति तत् ॥ २० ॥
तत्पुण्यतः प्रनष्टेऽस्मिन् दुष्टे कुष्ठे क्षणाद् नृपः । लग्घलावण्यलीलादिः पुनर्जात इवाऽभवत् ॥२१॥ तत्पुण्यतः श्रीपार्श्वनाथप्रासादप्रतिमानिर्मापणप्रभवात्, अस्मिन् दुष्टे कुष्ठे मनष्टे सति, लब्धं लावण्यलीलादि येन सः, पुनर्जातो नवाऽवतारेणाऽवतीर्ण इवाऽभवदिति ॥ २१ ॥