SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ ५८४ विजयाशस्त्याम् । ___ तत्र सर्वत्र वराः मधानपात्रीभूता वारनार्यो वाराङ्गनाः, नृत्तं नृत्यं, वितेनुश्चक्रुः, किं०, जनानामद्भुतकृत् आश्चर्यकारि, इव यथा, सुराणां गेहे स्वर्गे, हष्टनेत्रा हर्षिताक्ष्यः, स्वाहाभुजा देवानां, वस्तकुरङ्गनेत्राः स्त्रियो देवाङ्गना इति ॥ २८ ॥ इत्युत्सवं विस्मयवल्लिकन्द___कादम्बिनीकल्पमुदीक्ष्य लोकाः । सर्वे व्यमुञ्चन्निह सार्वभौम राज्याभिषेकोत्सवदर्शनेच्छाम् ॥ २९ ॥ इति काव्यदशकेन व्यावर्णितस्वरूपम् , उत्सवं मूरिपदप्रदानमहं, पुनः किं०, विस्मयवल्लेः कन्दस्तत्र कादम्बिनीकल्पं मेघमालातुल्यम् , उदीक्ष्य दृष्ट्या, सर्वे लोका इह नगरे, सार्वभौमस्य चक्रवर्तिनो राज्याभिषेकस्य दर्शनेच्छां वक्षिणवान्छो, व्यमुश्चन् -सुश्चन्ति स्मेति ॥ २९॥ . . अथैकादशभिः काव्यैः श्रीमल्लसाधुसत्कगृहमन्डपादि वर्णयक्ति श्रीमल्लनामाऽथ महेभ्यमुख्यः सौख्याय पौरप्रकरस्य सद्यः।। सन्मण्डपं मण्डयति स्म सौव- . . ___ गेहाङ्गणे दिव्यदुकूलदृश्यम् ॥ ३० ॥ . अथ पदमुहूर्तासन्ने दिवसे, श्रीमल्लनामा महेभ्यमुख्यः पौरप्रकरस्य नागरनिकरस्य, सौख्याय सौवगेहाङ्गणे निजमन्दिराजिरे, सन्मण्डपं, कि०, दिव्यदुकूलैः प्रशस्यपट्टकूलदृश्यं दर्शनीयं, मण्डयति स्मेत्यरचयत् ॥ ३० ॥ श्रीसङ्घरङ्गवृषकेलिधाम श्रीमण्डपो मण्डनकृत् स रेजे।
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy