SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ ३४४ विजयाशस्त्याम् । विधाय शौरीपुरपुर्यथो यदू.. द्वहस्य यात्रामतिमात्रसंघभृत् । जिनप्रतिष्ठां प्रचकार पारणे पुरेऽथ तत्रैव पवित्रदृग् गुरुः ॥ ५० ॥ अयो गुरुः, किं०, अतिमात्रसंघभृद् भूरितरसंघसंयुतः सन्, चतुर्मासकपारणे जाते सति शौर्यपुरे कुशावर्त्तदेशस्थे श्रीनेमिजन्मभूमौ यदहस्य नेमेः, यात्रां विधाय, पुनस्तत्राऽऽगत्य जिनप्रतिष्ठां श्रीचिंतामणिपार्श्वनाथप्रतिष्ठां, कुतवान् ॥ ५० ॥ उपोयवांसोऽथ पुनः फतेपुरं गुरुप्रबर्हाः स्वपरिच्छदान्विताः । तमो हरन्तः सुरराजदिक्शिलो च्चयोच्चमूर्धानमिवाब्जबन्धवः ॥ ५१ ॥ अयोग्रसेनपुरात् पुनः गुरुमबर्दा गुरुमुख्याः , स्वपरिच्छदेन पूर्वोक्तपण्डितपरिकरणान्विताः, अन्जबन्धवः सूर्याइव तमो हरन्तः तमः पापं ध्वान्तं चेति हरन्तो दूरीकुर्वन्तः सन्तः, सुरराजदिक्शिलोच्चयोच्चमूर्धानं पूर्वपर्वतशृङ्गमिव, फतेपुरं शाहिनाऽलङ्कृतं सीकरीतिनामकं नगरं उपेयिवांसः प्राप्ता इति ॥ ५१ ॥ निशम्य सूरि पुनरागतं पुरे फतेपुरे द्राग् मिलनोत्सुकोऽच्छदृग् । बभूव भूपः सुकृताभिलाषुको गुरुर्गरिष्ठोऽप्यजनिष्ट तन्मनाः ॥ ५२ ॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy