________________
नवमः सर्गः। ३३९ पिबन् श्रुतिभ्यां तदतुष्यदुर्वरा
पतिश्च वीणाक्कणितं फणीव सः ॥ ३८ ॥ तत्परमात्मनः स्वरूपं, किं०, अशेषं समस्तं, पुनः, उत्तममुत्कृष्टं, यथा पुरातनाचार्यवरैः प्राचीनानूचानेन्द्रः श्रीसिद्धसे. नदिवाकरकलिकालसर्वज्ञविरुदधारकश्रीहेमाचार्यादिभिः श्रीविक्रमार्कश्रीकुमारपालादीनां पुरो निरूपितं तथा तैरपि पूज्यैHरूपि प्रोक्तमिति, तत्स्वरूपं श्रुतिभ्यां कर्णाभ्यां, पिबन् अत्यादरेण शृण्वन् , उर्वरापतिःशाहिः, अतुष्यत् तुतोष । दृष्टान्तमत्राह-यथा वीणाकणितं वल्लकीनादं, शृण्वन् फणी भुजङ्गइवेति ॥ ३८ ॥ निशम्य सम्यक् प्रविचार्य चात्मना
यथास्थितं तन्मुदमाप भूपतिः । मनःसुखामुक्तिमवाप्य धीमतां ____ न कस्य हर्षः खलु जायतेतमाम् ? ॥३९॥
भूपतिस्तद् यथास्थितं गुरूदितं, निशम्य श्रुत्वा, च पुनः, आत्मना स्वयं, प्रविचार्य मुदमाप हर्ष प्राप्तवान् , खलु निश्चितं, धीमतां पण्डितानां, उक्तिं वाणी, कीदृशी, मनःसुखां चेतःसौख्यकारिणी, अवाप्य कस्य सकर्णस्य पुंसो हर्षो न जायतेतमां न भवतितराम् , अपि तु सर्वस्यापि जायते इति ॥३९॥
अभूद निजे धामनि वाङ्मयं पुरा
द्विधाऽऽत्म जैनं च यदैश्वरं च यत् । गुरोस्तदुर्वीपतिराश्वदर्शयद्
वदन् वरीयो विनयाश्चितं वचः ॥ ४० ॥