SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ विजयमयस्त्वाम् । निजे धामनि शाहेः समनि, पुरा पूर्व, यद् वाङ्मयं शास्त्रं, किं०, जैनं जिनागमरूपमङ्गोपाङ्गमूलसूत्रादि, च पुनः, ऐश्वरं यत् शिवशासनसंबन्धि भागवतभारतपुराणरामायणादि, इति द्विधात्म द्विप्रकारकं नागपुरीयतपापक्षीयपद्मसुन्दर श्वेताम्बरसत्कं, अभूत् तत् उर्वीपतिः शाहिः, गुरोरदर्शयत् गुरोः पुरःप्राभृतीकृतवान् , पुनर्विनयाश्चितं वचो वदन् यूयं पुस्तकमिदं गृहीतेति वाक्थं ब्रुवन् , आशु शीघ्रं, तदा दर्शयामासेति भावः ॥४०॥ विदन्नदस्तद्गुरुराददे च ना धुनैतदादानमकीर्तिकारि नः । नृपो विशेषाद् मुमुदे निरीहतां निरीक्ष्य सूरेरतिशायिनीमिमाम् ॥४॥ अधुनेदानीम्, एतदादानं पुस्तकग्रहणमपि, नोऽस्माकं, अर्कार्तिकारि राढाकृद् नेति, अदो विदन् इति जानन् , गुरुस्तद् नाऽऽददे न गृहीतवान् , ततः कारणादिमां अतिशायिनीं निरीहतां पुस्तकस्यापि मुक्तिरूपां निःस्पृहता, निरीक्ष्य नृपो विशेषाद् मुमुदेऽतिमुदितोऽभूद्; अहो ! एते निःस्पृहा यदि पुस्तकमपि न गृह्णन्ति तदा मया दीयमानममानधनकाञ्चनकाश्यपीप्रमुखं कथं गृह्णन्तीति मुनिदानम् ॥४१॥ आगृह्य भूयोऽपि ददौ नृपस्तदा तहारतीगेहमिवापरं परम् । अकब्बरीयाभिधया च कोशगं तत्पुस्तकं सर्वमचीकरद् गुरुः ॥ ४२ ॥ .. तदा तस्मिन् पुस्तके गुरुणागृहीते सति, भूयो
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy