________________
नवमः समः।
३४१ ऽपि पुनरपि, आगृह्य निर्बन्धं विधाय, नृपस्तद्भारतीगेहमिव अपरं सरस्वतीगृहमिव, परं प्रकृष्टं केवलं वा, ददौ दत्तवान् , गुरुर्निरीहः सन् यच्चकार तदुत्तरार्धेनाह-गुरुस्तत्पुस्तकं सर्व द्विप्रकारमपि, अकब्बरीयाभिधया अकबरशाहिनाम्ना, कोशगं भाण्डागारगतं, अचीकरत् कारयामास, आगराख्ये नगरे भाण्डागारे स्थापितवानिति शेषः॥ ४२ ॥ नृपेण दत्त्वा बहुमानमानम
न्महीमहेन्द्रव्रजसेवितांहिणा।
गुरुर्विसृष्टो निरगात् तदोकसः . पयोधराभ्रादिव धर्मदीधितिः ॥ ४३ ॥
गुरुर्नुपेण बहुमानं दत्त्वा विसृष्टोऽनुज्ञातः सन् , तदोकसस्तद्गृहाद् , निरगादित्यन्वयः। नृपेण किं०, आनमन्महीमहेन्द्रव्रजसेवितांहिणा प्रणमद्भूपालजालजुष्टचरणेन । दृष्टान्तमाह-इव यथा, पयोधराभ्राद् मेघवादलाद् , धर्मदीधितिः सूर्यइवेति ॥४३॥ विलोक्य मेने नृपगोपुरे पुरः
समेतमेतं गुरुमास्तिकैरिति । किमन्तिमार्हजनिराशितोऽद्य दु
ग्रहोऽवरूढः खलु भस्मनामकः ॥ ४४ ॥ नृपगोपुरे राजद्वारमतोल्यां, एतं गुरुं पुरः समेतं विलोक्य आस्तिकैरिति मेने इत्यचिन्ति । तदेवाह-खलु इति निश्चयार्थे, अद्य किं अन्तिमाईज्जनिराशितः श्रीमहावीरजन्मराशेः, भस्मनामको दुर्ग्रहः अवरूद. इति उचीर्णो मेने ॥४४॥