SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ १५२ विजयाशस्त्याम् । मवेति सार्वभौमत्वात् त्वां सर्वत्रोपकारिणम् । आशीभिरभिनन्दन्तस्ते सन्ति यतिसत्तमाः॥१२४|| ___ सर्वेषां समस्तानामपि धर्माणां दानादिभेदभिन्नानां नीतिर्नयो रीतिमर्यादा, यद्वा नीतेनीत्या वा रीतिस्तदनुसारिणां, राजैव रक्षकः, कासारपाथसां सेतुरिख-यथा सेतुः पालिः,सरःप्रयसां रक्षक इति ॥ १२३ ॥ हे शाहे ! इति मत्वा त्वां सार्वभौमत्वात् सार्वभौम इव सार्वभौमस्तस्य भावः सार्वभौमत्वं तस्मात् , सर्वत्राप्युपकारिणं दावा आशीर्भिरभिमन्दन्तस्ते यतिसत्तमाः मुनिश्रेष्ठाः, सन्ति तव धर्माशिपं ददामाः सन्तीति संगतिः ॥ इति युग्मव्याख्यानम् ॥ १२४ ।। : सर्वेषामपि धर्माणां जननात् परिपालनात् । दयैवाऽभिमता माता द्रुमाणामिव मेदिनी ॥ १२५ ॥ . हे राजन् ! सकलधर्माणां जननं निष्पादनं पुनस्तत्परिपालनं ययैवाऽऽतन्यते, तस्मात् समस्तधर्माणां माता दयाऽभिमता, यथा-द्रुमाणां माता मेदिनी, जननपालनादिकर्तुत्वं मातुरेवेति ॥ १२५॥ सुकृतेषु समस्तेषु मुनीनां मनसो मता। करुणा हरिणाङ्कस्य नक्षत्रेष्विव रोहिणी ॥१२६॥ समस्तेषु पुण्येषु मुनीनां मनसः करुणाऽभीष्टेति समग्रधमचिरणेषु दयानाः प्राधान्यं मन्वते, यथा-हरिणाङ्कस्य चन्द्रस्य, सकलनक्षत्रेषु, रोहिणी मतेति ॥ १२६ ॥ सा कृपा लवचापाथःपूरैः पल्लविता भृशम् । 'व्यानशे सांप्रतं विश्वं विश्वं वल्लीव मण्डपम् ॥१२७॥ है वृप ! एवं वर्णिना सा कृपा त्वद्वचःपाथःपूरै शमति
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy