SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ ४९६ विजयप्रशस्त्याम् । महामृगाणामिव सिंहशावः ॥ ९॥ मलं दलन्नध्वनि दैवताध्व धुनीव सर्वज्ञमनोज्ञवृत्तिः। समूलमुत्तालमहार्यवीर्यः प्रकम्पयन् पापतरून् करीव ॥ १० ॥ मुदां निदानं गुरु गूर्जरत्रा वधूललाटे तिलकायमानम् । श्रियां निधानं सुकृतप्रधानं प्रभुः क्रमात् पत्तनमाससाद ॥ ११ ॥ .. स्थाने स्थाने अतुच्छा महान्तश्च ये उत्सवास्तेषामोघः समूहो यस्यां तां, गुर्वागमादिति शेषः, उवीं पृथ्वी, अंहिरजोभिर्विभूपयन् , पुनः, गोविलासर्वाग्विलासैः, समग्रं जनं सुखयन्, ' क इव, तडित्वानिव मेघ इव, तत्पक्षे, गोविलासर्जलविलासैः, "गौरुदके" इत्यनेकार्थत्वादिति, गुरुर्मेघश्च कि०, मनोज्ञागमः प्रियागमन इति ॥ ७ ॥ पुनः, पकजिनीशिता सूर्य इव, वादिनएव निशाचरा उलूकाश्चौरा वा तेषां भयं सृजन्, तथा पुरे पुरे श्रावकसंघमुच्चैरतिशयेन, श्रियं शोभां, नयन् मापयन् , कः कमिवेत्युपनयमाह-सिन्धुं समुद्रं, औपधीशश्चन्द्रमाः, इव यथेति ॥८॥ च पुनः, दीप इव किं०, स्फुरन्ती दशाऽवस्था यस्येति सः, पक्षे दशा वर्तिर्यस्येति सः, अङ्गभाजां मिथ्यात्वमेव तमस्तत्समूह हरन् , पुनः, पथि मार्गे, कुमतिव्रजानां स्मयमहंकारं, नन् विनाशयन् , यथा सिंहशावः केसरिकिशोरकः, महामृगाणां हस्तिनां, स्मयं हन्ति तथेति ॥९॥ पुनः, दैवताध्वधुनीव गळेच, कि०, सर्वज्ञस्य महादेवस्य, पक्षे सर्वेषां ज्ञानां पण्डि
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy