SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ ४९७ चतुर्दशः सर्गः। तानां मनोवृत्तिः, मलं दलन् खपदन्यासैरध्वानं निर्मलीकुर्वनिति, पुनर्गुरुः किं०, अहार्यवीर्यः, अत एव करीव गजइव, समूलमुत्तालं चेति क्रियाविशेषणद्वयं, पापतरून् प्रकम्पयन् उन्मूलयन्निति ॥१०॥ प्रभुः श्रीअनूचानः, क्रमात् पत्तनं पत्तननामकं नगरं, आससाद प्रापेति, किंलक्षणं, मुदा हर्षाणां, निदानं, गुरु महत् , गूर्जरत्रावध्वा ललाटे तिलकसमानं, तथा श्रियां निधानं, पुनः, सुकृतेन प्रधानं, एतावनगरवर्णनं पुण्यप्रधानत्वाद् गुरुपावितत्वाचेति ॥ इति पञ्चानां वृत्तानां व्याख्यानम् ॥ ११॥ महोत्सवोत्साहसमुत्सुकस्या उनघस्य संघस्य सदादरस्य । वरं पुरं तद् गुरुणाऽऽग्रहण _ कियदिनान् पट्टधरोऽधितष्ठौ ॥ १२ ॥ तद् वरं पुरं पत्तननाम, कियद् दिनान् यावत् , पट्टधरः मूरिः, अधितष्ठौ स्थितः, केन, संघस्य गुरुणाऽऽग्रहेण, संघस्य किं०, महोत्सवानामुत्साहः करणलक्षणस्तत्र समुत्सुकस्य, पुनः, सदा सर्वदाऽनघस्य निष्पापस्य, अत एव सन् विद्यमान आदरोद् िदेवगुरुभक्तौ यस्येति ॥ १२ ॥ अत्रान्तरे किं जातमित्याहतपाधिराजः प्रभुहीरसूरिः __ पुरे वसन्नुन्नतनाम्नि तत्र । सुपर्वशाखीव मनोऽभिलाषान् प्रपूरयामास महाजनस्य ॥ १३ ॥ तपागणखामी प्रभुहीरसूरिः, तत्रोन्नतद्रले वसन्, महा. ६४
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy