SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २४६ विजयाशस्त्याम् । अस्मिन्नशोभततमाममरत्वभाजा___मप्यहृतं मह इलातिलके गुरूणाम् । सप्तार्चिषीव चरमाचलचूलिकायां चूलामणीयिततनोस्तमसामरातेः ॥ ३६ ॥ अमरत्वभाजामपि गुरूणां दिवं गतानामपि श्रीविजयदानसूरीणां, महस्तेजः, अस्मिन् श्रीहरिविजयसूरौ, किं०, इलातिलके भूमिभूषणे, अशोभततमां भृशं शुशुभे इत्यन्वयः । इव यथा, तमसामरातेः सूर्यस्य, किं०, चरमाचलचूलिकायां अस्ताचलशृङ्गे, चूलामणीयिततनोःशिरोरत्नायितवपुषः, अस्तंगतस्येति यावत् ; महः सप्ताचिषि वह्नौ, शोभते ॥ ३६ ॥ भट्टारकत्वमधिगम्य मुनीन्द्र एष - सौभाग्यभूरपि जगत्यधिकं दिदीपे। भद्रः करीन्द्र इव पार्थिवसार्वभौम द्वाराव नलिनदृक्तिलकायमानः ॥३७॥ एष मुनीन्द्रः, किं०, सौभाग्यभूःसुभगताधामापि, भट्टारकत्वं गणैश्वर्यरूपं, अधिगम्य प्राप्य, जगति लोके, अधिकं दिदीपे दीप्तिमापेत्यन्वयः। भद्रः करीन्द्रो भद्रहस्तीव, कि०, पार्थिवसार्वभौमद्वारावनीनलिनदृतिलकायमानः महाराजेन्द्रगृहभूभामिनीतमालपत्रोपमानः, इव यथेति दृष्टान्तः॥ ३७॥ . भट्टारकोऽयमिह साधुजनैरमानि __ भीमलभूरपि भृशं तपनो नवीनः । अस्योदये मुमुदिरे किल कौशिका य___च्छाया जवादुदलसच्च घनप्रकाशा ॥३८॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy