________________
षष्ठः सर्गः।
२४७ इह जगति, अयं भट्टारकः, भीमत्वभूरपि भीमतायाः स्थानमपि, नवीनस्तपनो नूतनो रविः, साधुजनैरमानि मेने इत्यन्वयः। नूतनत्वे हेतुमाह-यस्मादेतोः, अस्योदये कौशिका इन्द्राः, मुमुदिरे मोदमापुः, च पुनः, घनप्रकाशा बहुप्रसिद्धा, छाया शोभा, उदलसत् शोभते स्म, तपनोदये हि कौशिका उलूकाः, न मुदं लभन्ते "दिवा पश्यति नोलूकः" इत्युक्तेः, तस्यान्धत्वसद्भावात् , पुनः, घनप्रकाशा मेघतुल्या, छाया ध्वान्तं, नोल्लसति "छाया तमास" इत्यनेकार्थत्वात् ॥३८॥.. भट्टारकप्रभुरसावपि कान्तकान्ति
मैने जनैरिति नवः पतिरोषधीनाम् । दोषोदयो न यदभूददसीयदीप्तौ
शोभा बभार सकलः कमलाकरश्च ॥ ३९ ॥ असौ भट्टारकप्रभुः, किं०, कान्तकान्तिरपि आहादकृत्कान्तिरपि, नवो नवीनः, ओषधीपतिश्चन्द्रः, जनैर्मेनेऽमानीत्यन्वयः । तथात्वे हेतुमाह-यस्मात् कारणात् अदसीयदीप्तौ एतद्द्युतौ सत्यां, दोषोदयो दोषसद्भावो नाभूत् , च पुनः, सकलः कमलाऽऽकरः लक्ष्मीसमूहः, शोभांश्रियं, बभार धृतवान् , चन्द्रोदये हि दोषोदयो रात्रेरुदयः, भवति, समस्तः कमलाकरस्तटाकः, सरोरुहव्यहो वा, शोभा न बिभर्तीति भावः ॥ ३९ ॥
सप्तर्षिभूषितसमाजमथैकसौम्यं
दोषज्ञयुग्मसुभगं धनदैक्यहारि । तत्तद्बहुत्वसहितेन तुलां न यस्य
राज्येन सार्द्धमभजत् सुरराजराज्यम् ॥४०॥ यस्य गुरोः, राज्येन सार्द्ध सुरराजराज्यं तुलां नामजदित्य