________________
पठः सर्गः।
२४५ ऽमीभिः श्रीहीरविजयसूरिभिः, सा धूः स्वयं धुरिव आत्मभुजमूर्द्धनि खस्कन्धे, दधे धृतेति, अमीभिः कि०, अहार्य हर्तुमशक्यं धैर्य येषां तैः, अत एव पुनर्वर्यवीमनोज्ञवलैः॥ ३३ ॥ श्रीगौतमप्रतिममूर्त्तय आर्यवर्या
राज्यं तपागणनभोऽङ्गणभासमानाः । प्रापालयन्नथ समर्थमसीमभीम
कान्तैर्गुणै रविहिमांशुसमा इवामी ॥ ३४ ॥ अथामी आर्यवर्याः पूज्यमुख्याः, किं०, श्रीगौतमो गणभृत , तत्तुल्या मूर्तिर्येषां ते, पुनः, तपागण एव नभोगणं गगनाङ्गणं, तत्र भासमानाः शोभमानाः, समर्थ शक्तिसंपन्नं यथा स्यात्तथा, राज्यं पापालयन् पालयामासुः । इवोत्प्रेक्ष्यते-असीमभीमकान्तैरतिमात्रोग्रसौम्यैः, गुणैः रविहिमांशुसमाः सूर्यशशितुल्याः, तत्र भीमगुणैः सूर्यसमाः, सौम्यगुणैः शशिसमाश्चेति भावार्थः ॥ ३४॥
सर्वज्ञशासनविभासनभासि राज्यं
प्राज्यं प्रपालयति सूरिपुरन्दरेऽस्मिन् । क्षोणीतलेऽत्र शुशुभे न परं परेषां
तेजः सहस्रकिरणे सुरवर्मनीव ॥ ३५ ॥ अस्मिन् सूरिपुरन्दरे, प्राज्यं प्रकृष्ट, राज्यं प्रपालयति सति, अस्मिन् विक, सर्वज्ञशासनविभासनभासि जिनशासनप्रकाशकारिमहसि, अत्रक्षोणीतले, परेषां सूरीणां, तेजो न शुशुभे तिरोऽभूदिति भावः। सुरवर्त्मनि गगने, सहस्रकिरणे तरणौ सति, परेषां ग्रहनक्षत्रादीनां तेजो यथा न शोभत इति दृष्टान्तः ॥ ३५॥