SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २५४ विजयाशस्त्याम् । मिन, ध्रुवं नूनं, मया तपगच्छलक्ष्मीर्गच्छाधिपत्यसंपत्तिः, न्यास्या स्थापनीयेति ॥ ५२ । रोचिष्णुचित्तचरिताम्बुजबान्धवेन .. प्रातःस्मिताननविलोचनपुण्डरीकाः । संघेन मेनिर इमे मुनिपुण्डरीका श्चिद्वैर्मुदां सपदि सिद्धसमीहितार्थाः॥ ५३ ॥ रोचिष्णुचित्तचरिताम्बुजबान्धवेन मनोज्ञमानसाध्यवसायरूपाचारतरणिना, प्रातःस्मिताननविलोचनपुण्डरीकाः पातबेलायां व्याख्यानसभायां स्मिते हसिते आननविलोचनपुण्डरीके वदननयनकमले येषां ते, इमे मुनिषु पुण्डरीका व्याघ्रा गुरवः, मुदां चिह्नः पूर्वार्द्धविशेषणसूचितैः, सिद्धसमीहितार्थाः कृतकृत्याः, संघेन समस्तसाधुसाध्वीश्राद्धश्राद्धीलक्षणेन, मेनिरे ज्ञाता इति ॥ ५३॥ अमरगिरिसहायां दुर्वहायामदोऽन्यै गणधरधुरि योज्योऽवश्यमस्माभिरेषः । गणिजयविमलाख्यः शिष्यमुख्यः समेषा__ मजनि रतिकृदित्यानन्ददृष्ट्या गुरूणाम्॥५४॥ अमरगिरिर्मेरुस्तद्वत् सहो बलं यस्यां तस्यां, अत एव अदोऽन्यैः एतस्माच्छिष्यादन्यैरपरैः, दुर्वहायां दुर्धरायां, गणधरधुरि गच्छनायकपदव्यां, अवश्यं अस्माभिरेष शिष्यः, योज्यः स्थाप्य एवेति पूर्वार्द्धम् , इति गुरूणामानन्ददृशा हर्षदृशा, गणिजयविमलाख्यः शिष्यमुख्यः समेषां सर्वेषां चतुर्विधसंघलोकानां, रतिकृत् रागभाजनं, अजनि जातवानिति ॥५४॥ हरिहरिदिव सद्योभाविभानूदयश्रीः
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy