SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः । इव यथा, वसुन्धराया वसुधाया, विश्वेषु सर्वेषु भागेषु, वारिबाहो मेघो, वारीणि जलानि, वर्षन्नान्तरं कुरुते; तथायमपीत्यर्थः ।। ३५ ।। धनी धनान्यात्मजजन्महृष्टस्तथा प्रदत्ते स्म स मार्गणेभ्यः । पुंरूप एष त्रिदशद्रुमस्तै ने यथा भूवलयाऽवतीर्णः ॥ ३६ ॥ आत्मजजन्मना पुत्रावतारेण, हृष्टो हर्षितः, स धनी व्यवहारी, मार्गणेभ्यो याचकेभ्यस्तथा, धनानि प्रदत्ते स्म दत्तवान्, यथा तैर्याचकैः, एष श्रेष्ठी, पुंरूपः पुरुषरूपधारी, त्रिशद्रुमः कल्पवृक्षः, मेनेऽमानि ज्ञात इति यावत् । किं० भूवलये मेदिनीमण्डले अवतीर्णो लब्धावतार इति ॥ ३६ ॥ सोऽमुमुचद् गुप्तिगृहे निबद्धा न्नरान्नृपात्प्राभृतदानतुष्टात् । एतादृशां जन्मनि युक्तमेतत् प्रख्यापयन्नेवमशेषलोकान् ॥ ३७॥ स श्रेष्ठी, गुप्ति कारागारे, निबद्धान्, नरान् मनुष्यान, प्राभृतदानेन सुवर्णमणिमाणिक्यप्रमुखाऽशेषविशेषवस्तुढौकनेन तुष्टये हृष्टस्तस्मात् प्राभृतदानतुष्टात्, नृपात्तदानीं महाराजाधिराजमहाराणश्री उदयसिंहनामकात्, कमनयिताकम ठाकुम्भे कुम्भलमेरौ महादुर्गे स्थायिन इति शेषः, अमृमुचत् मोचयामासेत्यर्थः, एतादृशामेवंविधानां पुरुषाणां जन्मनि जनौ, एतद्युक्तं, एवभिति प्रख्यापयन् झापयन्, अशेषलोकान् सर्वजना - निति ॥ ३७ ॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy