SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः । २६७ पयन् पाण्डित्यं स्थापयामासुः, आलवाले स्थानके कन्दमिवेति दृष्टान्तो वोत्प्रेक्षा वा । युग्मव्याख्या || २४ ॥ संप्रापुषि प्रीतिपदं सुधीपदं विनेयरत्नेऽत्र पवित्रपद्धतौ । महात् प्रतिष्ठाप्रभवात् पुनस्तया श्राद्धाऽथ पून्या विदधेऽधिकोत्सवः ॥२५॥ अस्मिन् विनेयरत्ने, किं०, पवित्रा पद्धतिवारित्रप्रवृत्तिरूपा यत्र तत्र, प्रीतिपदं सुधीपदं, संप्रापुषि सति पण्डितपदवीं प्राप्ते सति प्रतिष्ठामभवात् महाद् महोत्सवात् अपि तया श्राया पून्या पुनरधिकोत्सवो गुर्वङ्गपूजाशिष्याङ्गपूजासङ्घपूजारूप्यकमभावनारूपो, विदधे चक्रे ॥ २५ ॥ 9 आनन्दसाम्राज्यमभूत्तदा सुधीपदं विनेयेऽत्र गणावुपेयुषि । चित्रं किमत्राभ्युदिते दिवाकरे पद्मोत्सवो यद्वचसामगोचरः १ ॥ २६ ॥ अत्र विनेये जयविमलगणौ, सुधीपदं उपेयुषि सति, आनन्दसाम्राज्यं हर्षाद्वैतत्वलक्षणं, अभूत् सर्वेषामिति शेषः । अत्र किं चित्रं, यत् दिवाकरेऽभ्युदिते सति वचसां अगोचरो वचनाविषयकः पद्मोत्सवोऽम्भोजोत्सवो भवतीति ।। २६ ।। तेऽथर्षिमुख्याः सुदृशां दृशां श्रियं सद्यः सृजन्तो मुनिराजिसंयुताः । भूमौ विहारं विदधुर्गवां भरै स्तमो हरन्तस्तपना इवाम्बरे ॥ २७ ॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy