________________
१६८ विजयमनस्त्वाम् । .. अथ स्तम्भतीर्थतोऽयदा ते ऋषिमुख्याः , कि०, मुनिराजिभिः संयुताः परिवृताः, पुनः०, सुदृशां सम्यग्दृष्टीनां, दृशां नेत्राणां, श्रियं शोभा, सृजन्तः कुर्वन्त इति भूमौ विहारं विदधुर्विजहारिति । के इव केत्याह-तपनाः सूर्या इवाम्बरे गगने ते च तपनाश्च किं कुर्वन्तः, तमो हरन्तः, एकत्र पापं, अन्यत्र वान्तम् , कैः, गवां भरैः, एकत्र गवां वाचां, अन्यत्र गवां किरणानां भैरैरिति ॥ २७ ॥ • सुपर्वपूर्ण वृषभावभासुरं
सुधामयं वैश्रमणास्पदं सदा। अहम्मदावादपुरं पुरन्दर
द्रकोपमं प्रापुरथर्षिशेखराः ॥ २८ ॥ ____ अथ ऋषिशेखरा वाचंयमवतंसाः अहम्मदावादपुरं प्रापुरित्यन्वयः । किं०, पुरन्दरद्रगोपमं इन्द्रपुरोपमं, इत्युत्तराद्धम् । पूर्वार्द्धन द्वयं श्लेषालङ्कारेण वर्णयति-पर्वपूर्ण शोभनोत्सवपूर्ण, अन्यत्र देवपूर्ण, पुनः, वृषभावेन धर्मरागेण भामुरं; अन्यत्र पा शकस्तस्य भावःसद्भावस्तेन भासुरम् , पुनः, सुधामयं सुधा गृहादिलेपकारी द्रव्यविशेषः, तन्मयम् , यतस्तत्र भूयसां सुशाधवलीकृतानां सौघानां सद्भावात् आधाराधेययोरभेदोपचारादिति । अन्यत्र सुधामयं पीयूषमयं अमृतप्रचुरं, देवभोज्यत्वात् सुधाया इति । पुनः, वैश्रमणास्पदं, एकत्र वै निश्चित श्रमणास्पदं साध्वास्पदं, अन्यत्र वैश्रमणास्पदं कुबेराख्यलो. कपालस्थानम् । इति द्वयोः श्लेषः ॥ २८ ॥
अहम्मदावादसमीपवर्तिनि
श्रियां क्लिासैककुले जनाकुले । अहम्मदाहेऽध पुरे मुनीश्वरा