SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः। २६९ चार्वी चतुर्मासभवां स्थितिं व्यधुः ॥ २९ ॥ अथाऽहम्मदपुरे, किं०, अहम्मदाबादाख्यनगरस्य समीपवर्तिनि शाखापुरे, पुनः किं०, श्रियां विलासस्य एककुलेऽद्वितीयगृहे, पुनः, जनाकुले लोकसङ्कुले, मुनीश्वरागुरवः, चतुर्मासभवां चातुर्मासिकी स्थिति, चावी रम्या, निर्विघ्नत्वाद् व्यधुअक्रिरे ॥२९॥ अथैकदैषां गणचिन्तनात्मनां सूरीश्वराणां कृतधर्मकर्मणाम् । श्रीसूरिमन्त्राधिपतिः सुपर्वराट् ___ समेत्य भूयोऽभिदधेऽभिरामगीः ॥ ३० ॥ एकदा तत्पारणके तत्रैव पुरे, एषां सूरीश्वराणां, किं०, कृतधर्मकर्मणां विहितपौरुषीपाठनादिसुकृतकृत्यानाम् , पुनः किं०, गणचिन्तने आत्मा येषां तेषां गच्छचिन्ताविचारिणां, निशीथे सुप्तानामिति शेषः । श्रीमूरिमन्त्राधिष्ठायकः सुपर्वराद् सुरवरः, किं०, अभिरामगीर्मनोज्ञवाक्, भूयः पुनः, समेत्यागत्य, आभेदधेऽवक् ॥ ३०॥ विद्वन्मणेः श्रीजयसिंहवाग्मिनः ___ पट्टप्रदाने किमियं विलम्बधीः ? । 'भावी यतो वीरपरम्पराब्जिनी दिवाकरः पट्टधरः स्फुरन्नयम् ॥ ३१ ॥ हे पूज्याः! इत्यध्याहार्यम् विद्वन्मणेमनीपिश्रेष्ठस्य, जयसिंहवाग्मिनो जयविमलाख्यपण्डितस्य, पट्टप्रदाने, इयं किं विलम्बधीः अनुत्सुकता, भवतां दृश्यत इति, यतः कारणात् अयं पधरः, किं०, वीरपरम्पराजिन्यां दिवाकरो भावी इत्यवधार्यम् ॥३१॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy