SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ ६७० विजयप्रशस्त्याम् । : उक्त्वेत्यदृश्यस्त्रिदशः स जातवान् मुदं मुनीनामधिपाश्च भेजिरे । स्वेष्टार्थसिद्धौ समताजुषामपि प्रेष्येव मुत् स्याद् यदरं पुरःसरा ॥ ३२ ॥ इत्युक्त्वा स त्रिदशः सुरः, अदृश्यो जातवान् गत इति यावत् । च पुनः, मुनीनां अधिपाः गुरवो मुदं भेजिरे हर्षमा पुरिति । तद्धेतुमेवाह- समताजुषामपि साधूनामपि, स्वष्टार्थसिद्धौ जातायां, अरं अत्यर्थ, मुत्येव किंकरीव, पुरःसरा स्यादिति ॥ ३२ ॥ अथान्यदा सूरिसभोग्रधन्वनोऽभ्येत्येति भून्यस्तसहस्तमस्तकाः । श्रीवाचकाधीश्वरपण्डितोत्तमाऽऽ दयः समस्ता ऋषयो बभाषिरे ॥ ३३ ॥ अथ रिसभोग्रधन्वनः आचार्यपर्षदिन्द्रान् श्रीगुरून्, वाचकाधीश्वरा उपाध्यायोत्तमाः पण्डितांत्तमाश्च, गीतार्थमुख्यास्तदादयस्तत्प्रमुखाः समस्ता ऋषयः, किं०, भून्यस्तसहस्तमस्तकाः पृथिवीस्थापितसपाणिशीर्षाः कृताञ्जलय इति यावत् । अभ्येत्य इति बभाषिरेऽवदन् ॥ ३३ ॥ यदब्रुवंस्तदाह पूज्याः ! अनूचानपदैकगोचरा सङ्घस्पृहा श्रीजयसिंहमण्डपे । ऊकेशवंशप्रभवेऽधिरोहणात् फलेग्रहिर्बल्लिरिवास्तु सत्वरम् ॥ ३४ ॥ हे पूज्याः ! अनूचानपदैकगोचरा आचार्य पदस्थापनाविष ,
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy