________________
विजयमशस्त्याम् ।
भाग्यराशिरिवोल्लासी श्रीगुरुर्विश्ववल्लभः ॥६२॥
"
तत्र श्रीगुरुः किं०, जगलोकलोचनानां भुवनजननयनानां, सुधाञ्जनं अमृताञ्जनम्, इवोत्प्रेक्ष्यते - भाग्यराशिर्मूर्तिमान्, शेषं सुगमम् ॥ ६२ ॥
४३६
प्रसन्नस्तत्र सुगुरुर्हरंस्तापं गवां भरैः । तडित्वानिव शिखिनां नृणामानन्दभूरभूत् ॥६३॥ तत्र सुगुरुर्गवां भरैर्वाचां चयैः, पक्षे गवां पानीयानां निवहै, तापं हरन् शिखिनां केकिन, तडित्वान् मेघ इव, नृणां आनन्दभूः हर्षस्थानमभूदिति ॥ ६३ ॥
सुधावृष्ट्येव संतुष्टविश्वयाऽसदृशा दशा ।
सुखयित्वा जनांस्तत्र व्यहार्षीदन्यतः प्रभुः ||६४ || दृशा दृष्ट्या, किं०, असदृशा निरुपमया, पुनः किं०, सुधावृष्येव संतुष्टं विश्वं जगत्, अथवा संतुष्टा विश्वा पृथिवी यया तया, जनान् तत्र महिमनगरे, सुखयित्वा सुखीकृत्य, प्रभुरस्यतो व्यहार्षीत् ॥ ६४ ॥
विहरन् जनताऽऽनन्दकुमुदाऽऽकरचन्द्रमाः । लोआिणाऽभिधे ग्रामे क्रमेण प्रभुरभ्यगात् ॥ ६५॥
क्रमेण विहरन् प्रभुः किं०, जनताऽऽनन्द एव कुमुदाऽऽकरः कैरववृन्दं तत्र चन्द्रमाः, लाभपुरनगरात् षष्टिक्रोशैरवग्वर्तिनि लोधि आगाssव्यग्रामेऽभ्यगात् ।। ६५ ।।
अथ तत्र यज्जातं तद् युग्मेनाह
तत्राऽथ मुद्गलखामिश्रीअकब्चरभूभुजः । अशेषधीसखाधीश शेखसंज्ञकमन्त्रिणः ॥ ६६ ॥