SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ द्वादशः सर्गः। ४३७ सहजः फयजीनामा मधुव्रत इवाऽऽगमत् । गुरोः क्रमपयोजन्म मूलमामोदसंपदाम् ॥६७॥ तत्र लोधिआणाग्रामे, मुद्गलस्वामी यः श्रीअकब्बरशाहिस्तस्य श्रीअकबरभूभुजो राज्ञः, अशेषाः समस्ता ये धोसखा मन्त्रिणस्तेषामधीशस्य शेखसंज्ञकमन्त्रिणः शेखाऽऽख्यमहामन्त्रिणः ॥६६॥ सहजो भ्राता, फयजीनामा महामुद्गलो दशसहस्रसैन्याधीशः, स गुरोः क्रमपयोजन्म पादपङ्कजं, किं०, आमोदस्य गन्धस्य हर्षस्य च मूलं, मधुव्रतो भृङ्ग इवाऽऽगमत् ॥ इति युग्मव्याख्या ॥ ६७॥ तदाग्रहवशात् तत्र श्रीनन्दिविजयाभिधः। असाधयत् सुधीरष्टावधानान्यन्तिषद् गुरोः॥६८॥ - तदाग्रहवशात् तस्य फयजीनाममुद्भलपतेराग्रहाद्, गुरो, अन्तिपत् शिष्यः, श्रीनन्दिविजयाख्यः सुधीविबुधः, अष्टावधानानि असाधयत् ॥ ६८॥ स एनां तत्कलां दृष्ट्वा चमत्कारमवाप यम् । नाऽध्वा तत्र गिरां ज्ञानां मानेऽम्भोधेरपामिव ॥६॥ स फयजीनामा, एनां तत्कलां अष्टावधानरूपां, दृष्ट्वा यं चमत्कारम्, अवाप प्राप्तवान् , तत्र चमत्कारे, ज्ञानां गिरांवाचाम्, अध्वा मार्गो नास्ति । दृष्टान्तमाह-अम्भोधेः समुद्रस्य, अपां पाथसां, माने प्रमाणे, यथा वचनागोचरत्वं तथाऽत्रापीति भावः।।६९।। तत्कौतुकं वहन्नन्तः स शाहेः सन्निधिं ययौ। . अपां भारं दधत् पाथोधरो भागं भुवामिव ॥७॥ तदष्टावधानावलोकनजातं कौतुकं मनोऽन्तर्वहन् स फयजीनामा शेखसहोदरः, शाहेः श्रीअकबरस्य, संनिधि समीपं, ययौ।
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy