SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ अर्हम् अथ चतुर्दशः सर्गः। अथ चतुर्दशः सर्गः समारभ्यते: अथो विशां भर्तुरकब्बरस्य मनःपयोजन्मविलासहंसः। ततः पुरादर्जितवर्यकीर्ति विहर्तुकामोऽजनि सूरिसिंहः ॥ १॥ अथाऽस्मिन्नसरे श्रीहीरविजयसूरयो वपुरपाटवादुन्नतपुरे ज्येष्ठस्थितिं कर्तुकामा आसंस्तनावसरे, हरिसिंहः श्रीविजयसे- .. नसूरिः, ततः पुराल्लामपुराद्, विह कामोऽजनि, कीदृशः, विशां नृणां भर्तुरकब्बरशाहेः, मन एव पयोजन्म कमलं तस्मिन् यो विलासस्तत्र हंसः, पुनः, अर्जिता वर्या कीर्तिर्येन सः॥१॥ • धराधिपं नीतिलतावितान पयोदमापृच्छय सदाऽऽदराढ्यम् । बुधं च नन्दर्विजयोत्तराद्वं विमुच्य तत्राऽवनिपोपरोधात् ॥ २॥ जयेन्दिरासुन्दरदोलताभ्यां ___ निकामनिष्पीडितकण्ठपीठः। गुरुर्व्यहार्षीत् पुरतस्ततोऽथ कुपाक्षिकाम्भोदभिदासमीरः ॥ ३ ॥ अनयोाख्या यथा-अथावसरे शुभे सति, ततः पुराद
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy