SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ ५९२ विजयप्रशस्त्याम् । गुरोः श्रीहरिमूरेः, किं०, निवसतिकृतः स्थितिकारिणः, प्रसत्तिभरात् प्रसादातिशयात् , तस्मिन पुरे सकलोऽपि पौरः पुरवासी लोका, सुखी समजनि, प्रमत्तिभरात् कथं, काममत्यर्थ, कम्राद् मनोज्ञात् , कसात् क इव किस्मिन्नित्याह-सूर्यात् कि०, उदयदिग्जुपोऽभ्युदिताद् , यथा सरसि सरोवरे , जलजस्तोमः कमलपटलः, पुनः, यथा मालयाद् मलयाचलोद्भवाद्, अनिलाद् वायोः, वनभुवि सर्वस्तरुवात इव, तथा गुरोः प्रभावात् पौरवर्गः सुखभाग जात इत्यर्थः ॥ १७ ॥ अत्रेन्द्रवज्रा प्रायः, अन्त्ये वृत्तत्रये तु शार्दूलविक्रीडितं शिखरिणी हरिणीति पृथक् पृथक् छन्दांसि ज्ञेयानीति, तेषां लक्षणानि तु पूर्वमुक्तानीति । • • • • • • • • • • • • • • • • • • • • • • • • इतीति स्पष्टम् । इति सकर युविहितसभासार्वभौमसमानपण्डितमण्डलीमौलिमौलीयमानपण्डितश्रीकमलविजयगणिसुशिष्यमुख्यपण्डितपुरन्दरप्रख्यपण्डितश्रीविद्याविजयगणिविनेयवाचकश्रीगुणवि. जयगणिविरचितायां विजयप्रदीपिकाभिधानधारिकायां सुखावबोधिकायां श्रीविजयप्रशस्तिमहाकाव्यदीकायां त्रयोदशः सर्गोऽर्थतः समर्थितः॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy