________________
- त्रयोदशः सर्गः ।
४९१
से प्रागुपवर्णिता भट्टारकाणां कोटिकोटयस्तासां तासु वा मुकुटाः श्रीमूरयः, पुरन्दरपुरममरावती तत्प्रख्ये ततुल्ये, अंत-. एव सुपर्वणां देवानां प्रिये, पक्षे शोभनपर्वभिः सुमहोत्सवैः प्रिये, तत्रैव पुरे उन्नताख्यपुरे, चतुर्मासकं चक्रुरित्यन्वयः । तत्र कथ मतिष्ठन्नित्याह- लाभ धर्मोन्नतिविशेष, ज्ञात्वा ते किं०, अभ्रतदिन न्या गङ्गाया रङ्गन्तश्च ते तरङ्गाश्च तद्वदुल्लसन्ती या कीर्तिस्तस्या या स्फुर्तिस्तद्रूपो यः पयः प्रवाहपटलस्तेन प्रक्षालितं क्ष्मातलं यैस्ते तथा ।। १५ ।।
अजस्रं दस्राभ्यामिव वरतरैर्वैद्यक करेभिषग्भिर्भूयोभिः सततयतनैर्भेषज भरैः । विबुध्या साध्यां स्वां रुजमिति निदानेन महता
द्वितीयां ज्येष्ठास्यां पुनरकृतं तस्यां पुरि गुरुः | १६ | पुनः वर्षान्तरे गुरुस्तस्यां पुरि, महतां निदानेन कारणेन, द्वितीयां ज्येष्ठास्यां द्वितीयं चतुर्मासक, अकृत कृतवान् किमिति निदानं तदाह - दस्रौ अश्विनीपुत्रौ दस्रशब्दो द्विवचनवाची, ततस्ताभ्यामिव भूयोभिर्भिषग्भिर्वैद्यैः किं०, वरतरैः श्रेष्ठतरैः, पुनः, वैद्यकं कुर्वन्तीति, तैः कैः कृत्वाऽसाध्यामित्याह - भेषजानां तद्रोगोपशामकौषधानां भरैः, अत एव भिषग्भिः सततं नित्यं, यतना सत्यापना,अर्थाद् गुरोर्येषां तैर्बहुभिरप्युपचारैः, निजतनुरोगमसाध्यं, विबुध्य ज्ञात्वा इति कारणाश्रयणेन तत्रोन्नतद्रएव तस्थुरिति ॥ १६ ॥
सरसि जलजस्तोमः सूर्यादिवोदय दिग्जुषो
वनभुवि तरुवातः सर्वोऽनिलादिव मालयात् । निवसतिकृतः कामं कम्रात् प्रसत्तिभराद् गुरोः
समजनि पुरे पौरस्तस्मिन् सुखी सकलोऽपि हि ॥ १७॥