SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ नवमः सर्गः। ३२९ कर्तुमिष्टयोः, शुभाशुभाऽध्वनोः सत्यासत्यमार्मयोः, प्रकाशकोऽस्तीत्यन्वयः । अधुना इदानीं, स हरिगुरुः कास्तीति शाहिना श्रीअकबरेण, उदिते सति, पुनः, सोतिमेतखानः, किं०, पटिष्ठवाक् प्रगल्भवचाः सन् , आह स्माऽभाषतेति ॥ १६ ॥ यदाह स्म तदाहपयोजिनी हंस इवाऽच्छपक्षभाक् स गूर्जरत्रामधुनाऽधितिष्ठति । निशम्य तद्वाचमदम्भजृम्भितां मुदं दधौ शाहिरहार्यधर्मधीः ॥ १७ ॥ .. पयोजिनी हंस इव स गुरुः, गूर्जरत्रामधुनाऽधितिष्ठति अधुना गूर्जरदेशे स्थितोऽस्तीति । हंसः स च कीदृशः, अच्छपक्षभाक् हंसपक्षेऽच्छौ पक्षौ छदौ, गुरुपक्षे मातृपितृलक्षणी पक्षौ भजतीति सः, अथ तद्वाचं किं०, अदम्भजृम्भितां नास्ति दम्भजृम्भितं कैतवविलसितं यस्यां तां निष्कपटां, निशम्य शाहिः किं०, अहार्या धर्मे धीर्यस्य सः, मुदं दधौ हर्षितवानित्यर्थः ॥ १७॥ वितीर्य पत्रं फुरमानसंज्ञक समानमाह्वानकृते कृती गुरोः । घनादरेणाऽऽत्मजनान् स मेवडा भिधानथ स्म प्रहिणोति भूपतिः॥१८॥ अथ स भूपतिरकब्बरपातिशाहिः, समानं सबहुमानं, गुरोराह्वानकृते आकारणाय, फुरमानसंई पत्रं वितीर्य दत्त्वा, घनादरेण बहाग्रहेण, मेवडाभिधान् आत्मजनान् स्वागावलगकसेवकान् , पहिणोति स्म भैषीत् प्रत्यकमिपुरस्थं श्रीशाहि
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy