SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ ६१४ विजयभशस्त्याम् । राजमान्यत्वेन इस्त्यश्वरथपदातिमयी ऋद्धिः सम्पत् तस्याः पूरः प्राचुर्य यस्य स इति,गुणैर्गुवीं महागुणकरीम् , इहलोकपरलोकादिसुखकृत्त्वात् , अर्बुदो नाम यः शैलो मरुमण्डलमुखा. प्रवर्ती, सप्तगव्यूतोच्चत्वहयद्वादशपद्याभिरामः, शालिग्रामदेवकुलपाटफाद्युपरिवर्तिद्वादशग्रामः, तलहटिकास्थितजैनश्रीकुमरविहारशैवाचलेश्वरविहारहारिसरोवरपुष्करिणीमन्दाकिनीनामतटाकिकावम्पककेतकखर्जूरीदाडिमीविशालतालीलवलाचश्चच्चूतलतादिनानावनराजीरमणीयतानिराकृतसुराचलाञ्चलदुर्गदुर्गशीपस्थश्रीचतुर्मुखचैत्यभूषणश्रीकृषभदेवस्वर्णवर्णाप्रतिमप्रतिमाचतुष्टयोपूरितयथेष्टजनकामितकामस्तस्य यात्रां चिकीर्षुस्तदर्शनं फर्तुमिच्छुः, चलति स्म, श्रीगुरुन्नत्वा यात्रार्थमचलदिति शेषः । इवोत्प्रेक्ष्यते-धात्रीं जिगीषुः क्षोणी जेतुकामः, भूमेः कमिता राजेव, अनेन महर्दित्वमेवाऽसूचीति ॥ २१ ।। पथि प्रतिश्राद्धगृहं प्रयच्छ नेकां विवेकी महिमुन्दिकां च । सिद्धाद्रियात्रामिव चक्रिशक श्चक्रे सतामर्बुदतीर्थयात्राम् ॥ २२ ॥ अथ स चलन् पुनरहम्मदावादादारभ्य प्रतिश्राद्धगृह सकलश्राद्धानां तपागच्छवर्तिनां गेहेषु, एकां महिमुन्दिका गूर्जरत्रामतीता, प्रयच्छन् ददत् , चक्रिशको मुख्यचक्रभृत् श्रीभरतइव, सिद्धाद्रियात्रां श्रीशत्रुञ्जययात्रां, यथा पूर्वम् , तथाऽयमपि ताम् , अर्बुदतीर्थस्य मुक्ताफलश्रीफलकनकरूप्यकुसुमादिवर्धापनपूर्वकं, यात्रां चक्रे कृतवानिति ॥ २२ ॥ सीरोहिकाऽऽख्ये नगरे च राण पुरे पुराणे दिविषच्छिखीव ।
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy