SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ भष्टादशः सर्गः। धनानि मार्गे वितरन् घनानि चक्रे स यात्रां सुमनोऽभिरामः ॥ २३ ॥ च पुनः, स सूरश्रेष्ठी सीरोहिकाख्ये शिवपुरीनाम्नि, नगरे नित्यं नवनवाङ्गपूजाऽग्रपूजाभावपूजाऽऽदिमाहात्म्यमयसप्रत्ययश्रीयुगादिदेवदिव्याऽऽलयाऽऽदिनवजिनाऽऽलयसुन्दरे, च पुनः, पु. राणे जीणे, श्रीधरणविहारबन्धुरे राणपुरे, उपलक्षणत्वाद् नारदपुरीवरकाणकादिषु घनानि धनानि दिविषच्छिखीव सुरवृक्ष इव, किं०, सुमनसा शोभनचेतसा, पक्षे सुमनोभिर्देवैः, अभिरामो रम्यः, वितरन् दिशन्, यात्रां मरुदेशवर्तितीर्थानां चक्रे । इदं वृत्तचतुष्टयं चन्द्रवज्रोपेन्द्रवज्रोपजातिभिरवसेयम् ॥ २३ ॥ यात्रां विधायाऽथ समागतः पुरे निजे स वर्या विदधे प्रभावनाम् । सुधीः प्रतिश्राद्धमतीद्धरूपकै___ोतोऽर्थिनां चैष सुपर्वपादपः ॥ २४ ॥ अथ स सूरश्रेष्ठी, यात्रां विधाय निजे पुरे समागतः सन् प्रतिश्राद्धं श्रावकमात्र प्रति, अतीद्धरूपकैः अतिदीप्तरूप्यनाणकैः स्थालीमोदकयुतैः, वर्या प्रभावनां विदधे कृतवान् , च पुनः, एषोऽर्थिनां सुपर्वपादपः कल्पतरुः, जात इति । इन्द्रवंशावंशस्थयोरुपजातिः ॥ २४ ॥ .. किं बहूक्तिरचनाभिरिहार्थे । तत्र चैषु गुरुषु स्थितवत्सु । वातवर्मनि रविष्विव जज्ञे सन्महो भुवनभूतिनिदानम् ॥ २५ ॥ च पुनः, तत्र पुरेऽहम्मदावादनगरे, एषु गुरुषु स्थितवत्सु
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy