SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः । सङ्घाधिनाथो जयसिंहनाम्ना .. __ स्वभागिनेयेन समं स्वसारम् । पञ्चेषुणेवाम्बुनिधेः सुतां तां मूर्जामनैषीदथ स स्वमोकः ॥११४॥ अथ तत्र कियत् स्थित्वा, स सङ्घाधिनाथः सङ्घमुख्यो. जयताख्यो मातुलः, स्वभागिनेयेन भागनीपुत्रेण, जयसिंहनाम्ना समं सार्च, तां स्वसारं भगिनीं कोडिमदेवीनाम्नी, मूर्ती मूर्तिमती, पश्चेषुणा कन्दर्पण, समं अम्बुनिधेः सुतां लक्ष्मीमिव, खं निजं, ओको निकेतनं, अनैषीद निनायेति ॥ ११४ ॥ _रेमेऽतुलं मातुलमातुलानी मुख्यं समस्तं परिवारमेषः ।। प्रमोदयंस्तस्य गृहे कुमार इवोग्रशक्तिः सुमुखः कुमारः ॥ ११५ ॥ तस्य जयताख्यमातुलस्य, गृहे एष कुमारो जयसिंहः, कीदृशः, कुमार इव कार्तिकेय इव, उग्रा शक्तिर्बलं यस्य सः, पक्ष, शक्तिरायुधविशेषो यस्य सः । पुनः किं० सुमुखः शोभनवदनः पण्डितो वा । पुनः किं कुर्वन् , मातुलमातुलपत्नीप्रमुखं समस्तं परिवारं कुटुम्ब, प्रमोदयभानन्दयन् , अतुलं बहुतरं, रेमे अरमतेति ॥ ११५॥ अमरगिरिगुहायां स्वर्गिशाखीव साक्षा दवनिधरधरायां केसरीवोगधामा । उडुपतिरिव पक्षे पाण्डुरे सत्कलाभिः .. __ कुवलयसुखहेतुर्वईते स्वैष तत्र ॥११६॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy