SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ बिजयमश्शस्त्याम् । अमरगिरेर्मेरोर्गुहायां यथा स्वर्गिशास्त्री कल्पवृक्षः; पुनः अवनिधरधरायां भूधरभूमिकायां यथा केसरी सिंहः । किं० उग्रं धाम बलं तेजो वा यस्य स उग्रधामा । पुनः पाण्डुरे धवले पक्षे उडुपतिश्चन्द्रमा यथा । किं० सत्कलाभिः कुवलयस्य भूव लयस्य, पक्षे कुवलयानां नीलोत्पलानां सुखहेतुः शर्ममूलमुद्बोधकत्वात् इत्येष बालो जयसिंहकुमारः, तत्र पालीपुर्या, वर्धते स्म प्रवर्धतेति । तथेदं मालिनीनामकं वृत्तं - " ननमयययुतेयं मालिनी भोगिलोकैः" इति लक्षणोक्तेः ॥ ११६ ॥ " ११४ • इतीति सर्व सुबोधम् । इतिसुविहितसभासार्वभौमसमानसकलपण्डितमण्डलीमौलिमौली यमानपण्डितश्रीकमलविजयगणिसुशिष्य मुख्यपण्डितश्रीविद्याविजयगणिविनेयाणुवाचक श्रीगुणविजयगणिविरचितायां विजयप्रदीपिकाभिधानधारिकायां श्रीविजयप्रशस्तिमहाकाव्यटीकायां द्वितीयः सर्गोऽर्थतः समर्थितः । अर्हम् अथ तृतीयः सर्गः । अथ तृतीयसर्गस्वरूपं निरूप्यते, तत्रेदमादिमं दृत्तम्श्रीवर्द्धमानः प्रभुरस्तु भूरि भूत्यै प्रभूतान्तभूतभद्रः । मूलं रमाया इव रत्नराशि बभूव यः साधुपरम्परायाः ॥ १ ॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy