SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ विजयाशस्त्याम् । श्रीमल्लनानः, आलयं, कि०, संश्रीकं व्यावर्णितशोभाशालिस्वाद , समुपेयिवांसो लग्नालयमदिवससन्ध्यायामिति शेषः, पथा राजहंसाः, किं०, वलक्षौ उज्ज्वलौ पक्षी येषां ते, गुरुपक्षे पिठमावरूपी पक्षी, हंसपक्षे पक्षौ पिच्छौ, पुण्डरीकं किं०, आमो. ददं गन्धदायि, आलयं कि०, हर्षदायिनमिति दृष्टान्तः॥४२॥ अथाष्टभिः काव्यैः पदस्थापनावसरोत्सववर्णनपूर्वकं त. दर्षमासपक्षतिथिवारनक्षत्रलग्नग्रहस्थितिकथनपट्टधराभिधानादि च निरूपयतिदानेष्वमानेष्वथ दीयमाने वर्थिवजे काश्चनसञ्चयस्य । एणीदृशां भर्तृभृताङ्गणेषु · गानं सृजत्सूज्ज्वलमञ्जुलार्थम् ॥ ४३ ॥ तूर्येषु वर्येष्वथ वेणुवीणा भेर्यादिषचैहुशो नदत्सु। गायत्स्वथो गायनपुङ्गवेषु तारखरं मञ्जुलमङ्गलानि ॥ ४४ ॥ भट्टेषु भूयस्सु भणत्सु शस्ता न्याशीर्वचांसि प्रसरन्महांसि । लोकेषु पश्यत्स्वथ सुप्रपञ्च मञ्चस्थितेषु प्रणयप्रियेषु ॥ ४५ ॥ सङ्घाग्रहाब्दोर्जितगर्जितेन संप्रीणितस्वान्तशिखण्डिशावैः । सूरीश्वरैः कोडिमदेतनूजः
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy