SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ .. सप्तदशः सर्गः। , ५८९ . कृत्वा विमानप्रतिमानमेवं खं धाम धामैष मुदामुदारः ॥ ४० ॥ पूज्या अनूचानपदप्रतिष्ठा कृत्यात् पवित्रीकुरुताऽङ्गणं मे । श्रीमल्लसाधुः शमिसार्थनाथा नेत्येत्यथो विज्ञपयाञ्चकार ॥ ११ ॥ अनयोर्युगपद् व्याख्या-एष श्रीमल्लसाधुः स्वभ्रातृपुत्रेण साधुसोमाख्येन सहितः, किं०, मुदां धाम, अत एव उदारः स्फाराकारः, स्वं धाम गृहं कृत्वा, किं०, विमानप्रतिमानं स्व निप्रतिविम्बं, करित्याह-दिव्यैर्दुकूलैः, अन्यैरपि पञ्चवर्णवस्त्रादिभिः, पुनः कैः, कलधौतेन कनकन रूप्येण च कान्तारम्या येऽलङ्कारभारा भूषणभरास्तः, पुनः, मणिमौक्तिकै रत्नमुक्तादिभिः,कथम्? एवमितिवर्णितप्रकारेण, सर्व निर्माय शमिसार्थनाथान् यतिव्रजनायकान् गुरून् , एत्य आगत्य, इति विज्ञपयानकार विज्ञप्तवान् , तदेव द्वितीयकृत्तपूर्वान प्राह- हे पूज्याः ! अनूचानपदप्रतिष्ठाकृत्यात् मूरिपदवीस्थापनाकार्यकरणात , मे सम, अङ्गणं गृहाङ्गणं, पवित्रीकुरुत पादावधारणेन पावनं विधीयतामिति वृत्तद्वयार्थः ॥ इति युग्मव्याख्या ।। ४० ॥४१॥ श्रीसूरयोऽथो समुपेयिवांसः सश्रीकमस्याऽऽलयमिभ्यभर्तुः । आमोददं मङ्क्ष वलक्षपक्षा: स्ते राजहंसा इव पुण्डरीकम् ॥ ४२ ॥ अथो तेन श्रेष्ठिना विज्ञप्ताः सन्तः, श्रीसूरयो गुरवः, सपरिकरा वाचकपञ्चकसपादशतमितपण्डितयुताः, अस्य इभ्यभर्तुः
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy