________________
६७६ विजयप्रशस्त्याम् । पत्युः समुद्रस्य, पुलिने तटे, प्रगुणैः पटुभिः, प्रयाणैः अखण्डितैश्चलन्निति ॥ २ ॥ क्रमेण देवतः कुलपाटकं देउलवाडाख्यं नगरं, कि०, तटिनीनाथस्य अर्णवस्य यत्तटभूतलं तस्य भूपणमिव भूपणं शृङ्गारभूतत्वात् , अलञ्चकाराऽऽगतवान् ॥ इति । त्रयाणां व्याख्या ॥३॥
तत्रागमनादनन्तरं यजातं तदाहइत्यचिन्ति फरङ्गीन्द्ररन्यदा द्वीपवासिभिः। गुरुः समागतो नूनमनूनमहिमाऽर्णवः ॥ ४ ॥
अन्यदा द्वीपवासिभिः फिरङ्गीन्द्रैः कपीतानकाजीकलासपाद्रीयप्रमुखफरशीमुख्यैः प्राग्मिलितैः, इति अग्रे वक्ष्यमाणम् , अचिन्ति चिन्तितमिति, किं ?, तदेवाह-नूनं निश्चितं गुरुर्देवकुलपाटके समागतः श्रूयते, स किं०, अनूनस्य पूर्णस्य महिम्नः अर्णवः समुद्र इति ॥ ४ ॥ यत्प्रभावात् पुराऽत्रत्यो लोकः सक्षेममागतः । तत्तेन साकं साङ्गत्यं साम्प्रतं साम्प्रतं हि नः ॥५॥
पुनः, यत्प्रभावाद् यस्य गुरोः प्रसादात् , योऽत्रत्यो लोको यात्रार्थमनेन गुरुणा सह गते वर्षे गतोऽभूत् , स द्वीपवासी लोकोऽर्थात् सङ्घः, सक्षेमं सकुशलं, गृहे आगतः मीर्या खुरमसककृच्छ्राद् मुक्त इति, ततः कारणात् , तेन गुरुणा साकं साङ्गत्यं मिलनं, नोऽस्माकमपि, साम्पतमधुना, साम्प्रतमुचितमिति ॥५॥
फरङ्गिमुख्यैर्ध्यात्वेति प्रीतितोऽभ्येत्य भूरिभिः । एवं विज्ञैकविज्ञप्तेः पात्रीच गुरुर्गुरुः ॥ ६ ॥ ___ इत्युक्तरूपं फरङ्गिगुख्यैर्ध्यात्वा विचिन्त्य, देवकुलपाटके अभ्धेत्य, एवमग्रे वक्ष्यमाणं, गुरुर्गुरुः परमगुरुरिति, विज्ञकविज्ञप्तेः, पात्रीचक्रे निपुणविज्ञप्तिकाविषयीकृत इत्यर्थः ॥ ६॥