SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ ५९२ विजयप्रशस्त्याम् । ङ्गारस्यैव मुख्यत्वात् , उज्ज्वलमञ्जुलार्थ गानं गीतगानम् , अथवा उज्ज्वला विलासिनः निर्मला वा मञ्जुलाश्च मनोरमा अर्था यत्र तत् , सृजत्सु कुर्वत्सु ॥ ४३ ॥ अथ पुनः, वर्येषु वादित्रेषु, किं०, वेणुवीणाभेर्यादयः प्रतीतास्तेषु, आदिशब्दात् पञ्चशब्दवाद्यादिग्रहः, तेन बहुशो नदत्सु वाद्येषु वाद्यमानेष्विति, अथ गायनपुङ्गवेषु गान्धर्वमुख्येपु, तारस्वरं धीरध्वनिमधुरालापमूर्च्छनाघोलनादिपूर्वकं, मञ्जुलमङ्गलानि रम्यमङ्गलमयगीतानि, गायत्सु सत्सु ॥ ४४ ॥ पुनः, भट्टेषु भूरिषु आशीर्वचांसि जीव, चिरं नन्द, चिरं जयेत्यादिवचनानि, किं०, प्रसरद् महस्तेजो येषु तानि, भणत्सु सत्सु, अथ लोकेषु, किं०, सुप्रपश्चाः सुविस्तारा ये मश्चाः पर्यङ्कास्तेषु स्थितेषु, पुनः, प्रणयेन स्नेहेन प्रियेषु कान्तेषु, पश्यत्सु विलोकयत्सु, तन्मण्डपादिशोभामिति ॥ ४५ ॥ सङ्घस्य आग्रह एव यत् अब्दोर्जितर्गाजतं मेघमहाध्वनिस्तेन, संप्रीणितो हृष्टः स्वान्तशिखण्डिशावो मनोमयूरार्भको येषां तैः, कैरित्याह-कोडिमदेतनूजैः सूरीश्वरैः श्रीविजयसेनमूरिभिः, किं०, पद्मातनूजैः कन्दपैरिव रम्यरूपैः ॥४६ ॥ वर्षे, किं०, पद् च, अक्षाणि पञ्च च, क्षितिपालाश्च षोडश, इत्यङ्कामगतिगणितैः संख्या यत्र तत्र १६५६ वर्षे इत्यागतं, पुनः, माधवनामधेये वैशाखाख्ये मासे, च पुनः, पक्षे किं०, पीयूपमयूखश्चन्द्रस्तद्भाजि शुक्ल पक्षे इति, तथा ब्रह्ममुखैश्वतुभिर्मितायां चतुझं तिथ्यामिति ॥ ४७॥ पुनः, औषधीनां प्रेयसचन्द्रस्य, दिव्ये दिने सोपवारे इति, पुनः, मृगे मृगशीर्षनाम्नि नक्षत्रे, किं०, लब्धमृगायोगे संप्राप्तशशिसंयोगे सति, अतोऽमृतसिद्धियोगे सतीति मूचितम् ; पुनः, रवियोगे चतुर्थे सति, पुनः, कुशलैः अखण्डे अतिगण्डे देवसिकयोगे, अखण्डे घटिकाव्यतीते सति, पुनः, शकुन्ताः शकुनास्तेषां सार्थे, किं०, सुखकृत्सु प्रचण्डे प्रकृष्टे सतीति ॥४८॥ पुनः, लग्ने कृपे वहमाने
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy