SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ एकादशः सर्गः। . ४१३ अधुना वर्णनोपसंहृति सृजन चैत्यप्रस्तावनां समर्थयतिचिन्तामणेश्चैत्यमिदं मनोज्ञं नृणां दृशोरध्वनि तन्वतां च ।। नन्दीश्वराष्टापदमुख्यतीर्थ चैत्येक्षणाशा श्लथभावमाप ॥ ६८ ॥ इदं चिन्तामणेः पार्श्वनाथस्य, चैत्यं नृणां नराणां, दृशोनेत्रयोः, अध्वनि पथि, तन्वतां पश्यतामिति यावत् , नन्दीश्वरोऽष्टमद्वीपः, अष्टापदश्च भरतचक्रवर्तिक्रीडागिरिः, तत्पमुखतीर्थचैत्यानामीक्षणाशा विलोकनस्पृहा, श्लथभावमाप शिथिलीभूतेति भावः ॥ ६८॥ . एतौ नितान्तं तनुतः प्रकाशं . यावद् मरुद्वर्त्मनि पुष्पदन्तौ । स्तात् तीर्थपृथ्वीललनाललाम . तावञ्चिरं चैत्यमिदं मनोज्ञम् ॥ ६९ ॥ यावद् मरुद्वर्त्मनि गगने, एतौ पुष्पदन्तौ चन्द्राकौं, प्रकाशमालोकं, तनुतः कुरुतः, तावत्कालं चिरकालं यावत् , इदं कामदं नाम चैत्यं, किं०, तीर्थस्य स्तम्भतीर्थस्य पृथ्वीललमाया भूमिमहेलाया ललाम तिलकतुल्यं, स्तादस्तु, आचन्द्रार्क तिष्ठत्विति भावः ॥ ६९॥ चैत्यं प्रशंसाऽऽस्पदमित्युदारं प्रातिष्ठिपत् सूरिरथोत्सवेन । आसीदधिष्ठायकदेवक्लुप्त सांनिध्यमेतच्च बहुप्रभावम् ॥ ७० ॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy