SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ४१४ विजयप्रशस्त्याम् । इति वर्णितप्रकारेण, प्रशंसाssस्पदमिदं चैत्यं सूरिरुत्सवेन प्रातिष्ठिपत् च पुनः, एतद् चैत्यं, किं०, अधिष्ठायकदेवेन क्लृप्तं कृतं सांनिध्यं यस्य तत्, अत एव बहुप्रभावमासीदभूत् ॥ ७० ॥ , चक्रे चतुर्मासकमाप्तमुख्यः श्रीसूरिसिंहोऽथ कृतप्रतिष्ठः । गन्धारपुर्या प्रचुर्यचर्या - वर्यात्माने क्ष्मापतिपूजितांहिः ॥ ७१ ॥ " अथ श्रीमूरिसिंहः किं०, आप्तमुख्यः पुनः कृतप्रतिष्ठः सन् गन्धारपुर्या, किं०, प्रचुरा प्रकृष्टा या आर्यचर्या पूज्यचर्या गमनं पूज्यपादावधारणमिति यावत् तया वर्ये आत्मा स्वरूपं यस्यास्तत्रेति शेषं सुगमम् ॥ ७१ ॥ तस्याः पुरीतोऽथ सुखं विहारं कुर्वन्ननूचानवितानवज्री | प्रापद् महत्त्वैकपदं समीपं ब्राह्ममिवेन्दुः सुगुरोः कलाऽऽयः ॥७२॥ 9 अथ तस्याः पुरीतो गन्गारवन्दिरात्, विहारं कुर्वन् सोSनूचानवितानवज्री आचार्यचक्रशक्रः, इन्दुश्चन्द्रः, ब्राह्मीमिव यथा रोहिणीं, तथा गुरोः श्रीहीरसूरेः समीपं किं०, महत्वैकपदं गुरुपक्षे महत्त्वं प्रसिद्धं, चन्द्रपक्षे महत्त्वमुच्चत्वलक्षणं, यतो रोहिणीगतश्चन्द्रो नृपराशिसद्भावादुच्च इति ज्योतिःशास्त्रमतम्, कलाssढ्य इति द्वयोरपि विशेषणं तुल्यम् ॥ ७२ ॥ सर्वासु दिवाभरणीभवन्तौ तौ पुष्पदन्ताविव दीप्तिमन्तौ ।
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy