SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः । १९१ निष्ट जज्ञे । इह सर्गेऽनुष्टुप्छन्दोऽन्त्यं तु हरिणीवृत्तं, तल्लक्षणं प्रतिपादितम् ।। १४३॥ इतीति सकलं भव्यम् । इतिसुविहितसभासार्वभौमसमानसकलपण्डितमण्डलीमौलिमौलीयमानपण्डितश्रीकमलविजयगणिशिष्यमुख्य पाण्डितपुरन्दरमख्यपण्डितश्रीविद्याविजयगणित्रिनेयवाचक श्रीगुणविजय गणिविरचितायां विजयप्रदीपिकाऽभिधानधारिकायां श्रीविजयप्रशस्तिमहाकाव्यटीकायां चतुर्थः सर्वोऽर्थतः समर्थितः । अर्हम् अथ पञ्चमः सर्गः । अथ पञ्चमः सर्गः प्रारभ्यते तस्येदमाद्यं काव्यम् - अथ सुखं निवसन् निजमातुलौकसि दद्युतिरम्यमुखोऽन्यदा । स जयसिंहकुमार उदारवाक् स्वजननीं जननीतिविदब्रवीत् ॥ १ ॥ अथ द्वितीयसर्गव्यावर्णितकौमारः स जयसिंहकुमारः जेसिंहनामा बालकः, किं०, रदद्युतिरम्यमुखः दन्तांशुमनोहराननः, पुनर्मातुलस्य जयताभिधानस्य ओकसि गेहे, सुखमिति क्रियाविशेषणम्, निवसन् अवस्थानं कुर्वन्, अन्यदा एकस्मिन्
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy