________________
१९२ विजयप्रशस्त्याम् । दिने, स्वजननीं कोडिमदेवीनाम्नी, अब्रवीत् कथयति स्म । स किं०, जनानां नीतिं वेत्तीति सः ॥ १॥ अथ यदब्रवीत्तदाहजननि ! सांप्रतमस्मि पितेव स
न्मतिपदं विपदम्बुधितारिणीम् । ननु जिघक्षुरथो नियमस्थिति
शमघनामघनाशकरीमहम् ॥ २ ॥ है जननि मातः ! सांप्रतमधुना, पितेव कमर्षिवत् , नियमस्थिति तपस्यां, जिघृक्षुर्ग्रहीतुमिच्छुः, अहमस्मीत्यन्वयः। कीदृशीं, सन्मतिपदं शोभनबुद्धिस्थानं, पुनः किं०, विपदम्बुधितारिणी जन्मजरामरणादिव्यापत्तिसमुद्रतारिणी, पुनः किं०, शमस्य क्षमाया घनो दाय॑ यस्यां सा शमघना तां "उवसमसारं खु सामण्णं" इत्यागमायुक्तः। अत एव अघनाशकरी पापप्रध्वंसकारिणीम् ॥ २॥
स खलु वर्त्मनि यत्र पिता मम
ब्रजति तत्र लघुश्चलिताऽस्म्यहम् । जगति यज्जनकाधिगता बुधै
रभिहिताऽभि हिता महतां सृतिः ॥३॥ स कमर्षिः, मम पिता यत्र वर्त्मनि संयममार्गे, व्रजति तत्राहं लघुर्बालोऽपीत्यध्याहार्यम् , चलितास्मि चिचलिषुरस्मीत्यन्वयः। यस्माद्धेतोः, महतां पुण्यात्मनां पुत्राणां, जनकाधिगता नातनिषेविता, मृतिः पद्धतिः, अभि समन्तात् , हिता हितकारिणी, बुधैरभिहिता प्रोक्ता, आदातुमित्यर्थः ॥३॥
तदनु पुत्रमवोचदिति प्रसू