________________
विंशः सर्गः।
६५९
अस्ति सूर्यपुरं नाम बन्दिरं सुन्दरेन्दिरम् ॥ ५ ॥
इतः संबन्धान्तरे, चपुनः, सूर्यपुरं नाम सूरतिवन्दिरं, किं०, सुन्दरेन्दिरं रम्यश्रि, अस्ति; किं०, वसुधावध्वा भूभामिन्याः, भाले भालविभूषणं तिलकतुल्यमिति भावः ॥ ५॥ यदभ्यर्णमभिव्याप्य सवन्ती तपनात्मजा। संव्यानमिव नगरश्रियः शोभा शुभां दधौ ॥ ६ ॥ .
यस्य सूरतिबन्दिरस्य अभ्यर्ण समीपम् , अभिव्याप्य विध्वम् व्याप्तिविषयीकृत्य, तपनात्मजा तापीनाम्नी, सवन्ती नदी, शुभां शोभा दधौ धरति स्मेति, इवोत्प्रेक्ष्यते-नगरस्य श्रियो लक्ष्म्याः , संव्यानं परिधानाम्बरमिवेत्यर्थः ॥ ६ ॥
अथानघस्य सङ्घस्याऽऽग्रहेणानुग्रहप्रभुः। गन्धारबन्दिरात् तत्र नगरे गुरुरीयिवान् ॥ ७ ॥
अथ गुरुः किं०, अनुग्रहः कृपारूपस्तत्र प्रभुः समर्थः खामी वा, तत्र नगरे मूर्यपुरनगरे, अनघस्य निर्दोषस्य, सङ्घस्य आग्रहेण गन्धारवन्दिराद् भृगुकच्छवन्दिरलोकान् रानेरवन्दिरलोकांश्च सन्तोष्य तापीतटिनी नावोत्तीर्य ईयिवान् प्राप्त इति।।७।।
गुरोरागमनोदन्तः प्रासरत् सकले पुरे । तादृशामागता वार्ता यतः खैरविहारिणी ॥८॥
गुरोः सूरेः, आगमनस्य उदन्तः समाचारः, सकले पुरे पासरद् विस्तीर्णवान् , यतः कारणात् , तादृशां पुरुषोत्तमानां वार्ता आगता सती, खैरविहारिणी सर्वत्र गामिनी भवतीत्यर्थः ॥८॥ सङ्घोऽनघोऽथ तत्रत्यो भूरिभूषणभूषितः। प्रत्युजगाम परमगुरुं गुरुमिवाऽमरः ॥ ९ ॥ अथ तत्रत्योऽनयो मनोज्ञः, स्फारालङ्कारनेपथ्यादिमत्त्वा