SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ ५७४ विजयप्रशस्त्याम् । .. पो सालोकाः सोयोता लोका यत्र तस्य, पुनस्तमसोऽघस्य, पक्षे ध्वान्तस्य च निहन्तुर्यातकस्येति दृष्टान्तः॥२॥ गतोपमानप्रतिमानमेनं दृष्ट्रेति नः स्पष्टतमोऽस्ति तर्कः । चक्रे भुवीमं ननु विश्वकर्मा नान्यो यदीदृग् नयनाध्वनीतः ॥ ३ ॥ एनमुपाश्रयं, किं०, गते उपमानप्रतिमाने तुलाप्रतिबिम्बे यस्य तं निरुपमं निष्पतिविम्बं चेत्यर्थः, दृष्ट्रा नोऽस्माकं, स्पष्टतमः स्फुटतरः,तर्को विचारोऽस्ति तमेवोत्तरार्धेनाह ननु निश्चितम्,इममुपाश्रयं, विश्वकर्मा देववर्धकी, चक्रे, तत्रापि हेतुमाह-यद् ईक अन्य उपाश्रयो नयनाऽध्वनि नेत्रपथे, न इतः प्राप्तो न दृष्ट इति ॥३॥ स्थाने मुनीनामिह तत्र सत्रे श्रीणां स्थितः श्रीश्रमणाधिराजः। जन्मोदधौ पोतमिवाततान मुत्संनिवेशं सुकृतोपदेशम् ॥ ४ ॥ तत्र मुनीनां स्थाने, किं०, श्रीणां सत्रे गृहे, श्रीश्रमणाधिराजः मूरिः, स्थितः सन् ; इवोत्प्रेक्ष्यते--जन्मोदधौ भवार्णवे, पोतं मवहणमिव, तारकत्वात् , सुकृतोपदेशम् , किं०, मुदा संनिवेशम् , आततानेति कृतवान् , व्याख्यानमिति भावः ॥ ४ ॥ प्रासादबिम्बादिविधानपूर्व काराप्यते यद् भगवत्प्रतिष्ठा। श्रीतीर्थयात्रा क्रियतेऽतिगुर्वी गच्छाधिपाचार्यपदोत्सवश्व ॥ ५ ॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy