________________
चतुर्थः सर्गः ।
૨૮૭
तेन, कृषीवला इव कर्षका इव, अमुना वचनेन देवोकेन, मुदं दधुर्मुमुदिरे ॥ १३० ॥
अहो ! वचनमेतस्य दैवतस्य महात्मनः । अर्थ उक्तेरिव मदाशयस्याऽव्यभिचार्यभूत् ॥ १३१ ॥
अहो इत्याश्चर्यवाचकोऽव्ययः, एतस्य दैवतस्याऽस्य देवस्य, बचनं महात्मन उक्तेरिव आप्तपुरुषवाक्यस्यैव, अर्थोऽभिधेयो यथा अव्यभिचारी भवति तथा, महाशयस्य मच्चित्तस्य, अव्यभिचारि अभूत् ॥ १३१ ॥ चिन्तयित्वेति चित्तान्तश्चिरं सूरिपुरन्दरैः । पृष्टाः प्रोचुर्यथाकाममिति सर्वेऽपि साधवः ॥ १३२॥
इति सूरिपुरन्दरैश्चित्तान्तश्चिन्तयित्वा सर्वेऽपि साधवः पृष्टाः सन्तः यथाकाममिति प्रोचुर्यथा रुचिर्भवतां तथाऽस्त्विति कथयामासुः । अर्थतो युग्ममिदम् ॥ १३२ ॥
अब्देऽथ शुद्धे धिष्ण्याध्वधिष्ण्येशर्तुधरामिते । दशम्यां सहसो मासो विशदद्युतिसंपदि ॥ १३३ ॥
अथ अब्दे वर्षे, कीदृशे, शुद्धे गुर्वस्तशुक्रास्तादिना वर्जिते, पुनः किं०, धिष्ण्याध्वा गगनं, धिष्ण्येशचन्द्र एकः, ऋतवः षद्, धरा एका, तद्वाचकैर कैर्वामगत्या विन्यस्तैः १६१० इति सङ्घयया मिते, पुनः सहसो मासो मार्गशीर्षस्य मासस्य, दशम्यां तिथौ, किं०, विशदद्युतेश्चन्द्रस्य सम्पद् यत्र तत्र विशदद्युतिसंपदि मार्गशीर्ष शुक्रदशम्यामिति ॥ १३३ ॥
अथ द्वादशभवनविभागेन तल्लग्नकुण्डलिका यथा— कर्के राहौ शनौ कुम्भे सौम्यमार्त्तण्डयोरलौ ।