SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ ४८४ विजयाशस्त्याम् । यथा हिमांशौ चन्द्रे सति, गगनमिव, कीदृशे चन्द्र गुरी चेत्याहकौशिकस्य घूकस्य आनन्दिनी मूर्तियस्य तस्मिन् , गुरुपक्षे, कौशिकस्य शक्रस्यानन्दिनीति, शेपं स्पष्टम् , पुनः, उष्णज्योतिपि सूर्ये सति, नलिनवनं यथा, कीदृशे सूर्ये गुरौ च, स्मेराणि पद्मानि पङ्कजानि यस्मात् तस्मिन् , गुरुपक्षे, स्मेरा पद्मा श्रीर्यस्मात् तस्मिन्निति समानधर्मोपनयालङ्कृतिरिति ॥ २३८ ॥ • • • • • • • • • • • . . . . . . . . . . . . . इतीति सकलं कण्ठ्यम् । इति सकलसुविहितसमासार्वभौमसमानपण्डितमण्डलीमौलिमौलीयमानपण्डितश्रीकमलविजयगणिसुशिष्यमुख्यपण्डितपुर- . न्दरप्रख्यपण्डितश्रीविद्याविजयगणिविनेयवाचकश्रीगुण- ... विजयगणिविरचितायां विजयपदीपिकाभिधानधारिकायां सुखावबोधिकायां श्रीविजयप्रशस्तिमहाकाव्य टीकायां द्वादशः सर्गोऽर्थतः समर्थितः॥ अहम् अथ त्रयोदशः सर्गः। अथ त्रयोदशः सर्गः समारभ्यते, तत्र श्रीहीरविजयसूरिवृत्तवर्णनात्मकं प्रथमं वृत्तं यथा इतश्व भट्टारककोटिकोटी___ कोटीरहीरप्रभुसूरिहीरः। कृत्वोत्सवोत्साहविलासवर्या ज्येष्ठस्थितिं पत्तननामपुर्याम् ॥ १ ॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy