SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ द्वादशः सर्गः। ४८३ आग्रहादथ गुरुणा श्रीसंघप्रीतिकारिणा। . तत्रैव नगरे चक्रे चतुर्मासं द्वितीयकम् ॥ २३६ ॥ अनयोयोख्यिा - अथेति प्रथमचतर्गासककरणानन्तरं वपन्तिरे गुरुणा तत्रैव नगरे द्वितीयकं चतुर्मासकं चक्रे कृतमित्यन्वयः, ननु किमर्थ द्वितीयमपि चतुर्मासकं तत्रैव कृतमित्याह-पृथिवीपतेर्भूभर्तुराग्रहात् , अहो ! सोऽपि कथमेतावन्तमाग्रहं कृतवानित्याह- पृथिवीपतेः किंविशिष्टस्य, विद्याया विनोदो वैराग्यं च विज्ञानं विशिष्टज्ञानं तद्रूपवमूनां वारिधेः समुद्रस्य गुरोः परिचयात् प्राप्ता प्रसिद्धिः सार्वत्रिकख्यातिर्येनेति कृत्वा, यो हि यस्मात् प्रसिद्धि प्रामोति से तमागृह्य रक्षत्येवेति, यथा पुरा श्रीहेममूरि श्रीकुमारपालक्ष्मापाल इति ॥ इति युग्मम् ॥२३५।।२३६॥ अधिकतरावस्थाने किं जातमित्याहदिदीपेऽथ या शाहेराचार्यवचनामृतैः । संसिक्ता पयसां पूरैवल्ली विद्युत्वतो यथा ॥ २३७ ॥ _ अथेति प्रचुरतरप्रसङ्गे सति, आचार्यवचनामृतैः शाहेरर्थान्मनसि, दया दिदीपे दीप्तिमाप्तेति, यथा विद्युत्वतो मेघस्य, पयसां पूरैः संसिक्ता वल्ली दीप्तिमाप्नोतीति दृष्टान्तः ॥२३७॥ साग्रया श्लोकद्विशत्या सर्ग निर्मायाऽथ मालिन्योपसंहरतिगगनमिव हिमांशौ कौशिकानन्दिमूर्ती नलिनवनमिवोष्णज्योतिषि स्मेरपझे। तदनघमनघश्रीसंघराजीवसूर्ये स्थितवति यतिराजे पत्तनं चारु रेजे ॥२३८॥ तत्पत्तनं लाभपुरं, चारु यथा स्यात्तथा, यतिराजे सूरौ, स्थितवति सति, रेजेऽशुभदित्यन्वयः। कस्मिन् सति किमिवेत्याह
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy