SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ ३३० विजयाशस्त्याम् । ध्यावेति साधुशशिभिः शकुनानुकूल्या___ऽतुल्यक्षवारतिथियोगमनोहरेऽह्नि । शिष्योत्तमः प्रहित एष चचाल मूर्त आद्यः पुमर्थ इव सुन्दरसाधुसार्थः ॥ ३ ॥ . इति ध्यात्वा तैः साधुशशिभिर्गुरुभिः, प्रहित एष शिष्योत्तमः, चचालाञ्चलत् ; कस्मिन् , अह्नि दिने, किं०, शकुनानुकूल्यं च अतुल्यानि यानि ऋक्षाणि अश्विन्यादीनि, वाराश्च रव्यादयः, तिथयः प्रतिपदादयः, योगाश्च विष्कम्भप्रमुखाः, अथवा योगा रवियोगराजयोगकुमारयोगप्रमुखाः, अथवाऽतुल्यक्षवारतिथीनां यो योगविकसिद्धियोगादिस्तेन ताभ्यां वा शकुनानुकूल्याऽतुल्यसंवारतिथियोगाभ्यां मनोहरे दिवसे । इवोत्प्रेक्ष्यते--आद्यःप्रथमः, पुमर्थः पुरुषार्थः, अर्थाद्धर्मः, अगवान् मूर्त इति, पुनः, सुन्दरसाधुसार्थ इति शिष्यविशेषणम् ॥ ३ ॥ अथ शकुनान् वर्णयतिपीनः पृथुः श्रवणयुग्ममनोज्ञमूर्धा श्यामश्चतुश्चरणचारुरतुच्छपुच्छः । द्राक् संमुखं वलितकन्धरबन्धुरास्यो वामः पथि प्रथमतः सरमासुतोऽगात् ॥ ४ ॥ पीनः पुष्टः, मांसोपचितत्वात् , अत एव पृथुविस्तीर्णः, अङ्गोपाङ्गादिभिरिति, पुनः, श्रवणयुग्ममनोज्ञमूर्द्धा श्रोत्रयुगलशालिशिराः, पुनः, श्यामो वर्णतः, वसन्तराजादौ श्यामः श्वानोऽतिवरीयानिति ज्ञायते, पुनः, चतुश्चरणैः चारुः, पुनः, अतुच्छे पुच्छं यस्य सः, पुनः, संमुखं अभिमुखं, तस्य शिष्यस्य संमुखं, वलितकन्धरं वलितग्रीवं यथा स्यात्तथा बन्धुरं आस्यं यस्य
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy