SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ पष्टः सर्गः। .. २३१ सा, सरमासुतः धानः, प्रथमतः पूर्व, पथि मार्गे, वाम इति दक्षिणपार्थाद् वामपार्थ, अगात् गत इति । स हि प्रयाणेऽतीव शुभः, यदुक्तम्-"दक्षिणाद् वामगमनं प्रशस्तं श्वशृगालयोः" इति ॥४॥ छायाकुले तरुतले पथि तस्थिवांस मेनं विनेयमथ दक्षिणमेत्य चाषः । संसूचयन् सपदि चारुवचःप्रपञ्चै स्त्रि विनीमुदयिनी पदवीं परीतः ॥ ५॥ छायया आकुले, अथवा छायायाः कुले गृहे, तरुतले, पथि मार्गे, तस्थिवांसं स्थितिजुषं, एनं विनेयं जयविमलाख्यं, वामतो दक्षिणं दिग्भागं, चाषः चासपक्षी, एत्य आगत्य, त्रिः परीतः तिस्रःप्रदक्षिणा दत्तवान् , चापः किं कुर्वन् , संसूचयन् ज्ञापयन् , . . कां, भाविनी पदवीं गच्छैश्वर्यलक्षणां प्रदक्षिणां ददानो हि चाषोऽतीव श्रेष्ठः। यदुक्तं श्रीभद्रबाहुखामिपादैः"जम्बू चासमऊरे भारदाए तहेव नउले अ। दसणमेव पसत्थं पयाहिणे सव्वसंपत्ती"॥१॥ इति । · पुनः पदवी किं०, उदयिनी अग्रतोऽभ्युदयवतीमिति, कैः, चारुवचःमपश्चैः मनोहरवाग्विस्तरैः । एतावता शब्दायमानस्य चाषस्य दर्शनमप्यतिश्रेयः सूचितम् । यतः"नकुलाजमयूराणां चापखञ्जनयोरपि । दर्शनं कीर्तनं शब्दः सर्वसिद्धिकरं नृणाम्" ॥१॥ इति वचनात् ॥५॥ आनन्दकन्दसदृशा खदृशा पुरस्तात्
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy