________________
हितीयः सर्गः ।
१०५
कमाख्यः श्रेष्ठिप्रधानः, स्वपुत्रं जयसिंहाभिधानं, अधीतं पठितं, उद्वीक्ष्य दृष्ट्वा इतीतिवक्ष्यमाणलक्षणं, दृदि मनास, दध्यौ ध्यातवानित्यर्थः ॥ ९५ ॥ अथ तदेवाह
असारसंसारधरारुहस्य
सारं फलं ज्ञैः कथितं तपस्या ।
सैवौचितीमञ्चति मेऽथ भुक्तभोगस्य विश्राम इव श्रमार्त्तेः ॥ ९६ ॥
असारः फल्गुर्यः संसारधरारुहो भवभूरुहस्तस्यासारसंसारधरारुहस्य, ज्ञैः पण्डितैर्गणधरादिभिः, तपस्या दीक्षा सारं फलं कथितमुक्तम् । तेनाथ मे मम कीदृशस्य भुक्तभोगस्य निविष्टविषयस्य, सैव तपस्यैव, औचितीमश्चति योग्यतामेति । दृष्टान्तोऽत्र - इव यथा, श्रमार्चः श्रमस्य क्लमस्य अर्त्तिः पीडा यस्य तस्य श्रमार्त्तः श्रमपीडितस्य पुंसः, विश्रामो व्यायामव्यपोहरूप इति ॥ ९६ ॥
ध्यात्वेति वैराग्यवरैर्वचोभिः
पत्नीं पतिः प्राह विरक्तचेताः ।
प्रिये ! भवत्याऽनुमतोऽधुनाहं परिव्रजिष्यामि गुरोः समीपे ॥ ९७ ॥
इत्युक्तरूपम्, ध्यात्वा चिन्तयित्वा विरक्तचेता निःस्पृहमनाः, पतिः प्राणेशः, वैराग्यवरैर्निः सङ्गतासारैः, बचोभिर्वाक्यैः, पत्नीं प्राह- प्रिये हे भायें !, भवत्याऽनुमतस्त्वयाऽनुज्ञातः सन्, गुरोर्विजयदानसूरेः श्रीतपागच्छनायकस्य; समीपे पार्श्वे परिव्रजिष्यामि, दीक्षां कक्षीकरिष्यामीत्यर्थः ॥ ९७ ॥
१४