SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः। वाद्यमाने सतिः पुनर्हासिन्यो हास्यवत्यो विस्मितानना इति यावतः याःसुहासिन्यः सधवयुवत्यस्ताभिः हासिसुहासिनीभिः, मङ्गल्येषु मनोहरेषु, गीतेषु धवलध्वनिरूपेषु, गीयमानेषु सत्सु, कथम् , उच्चैःस्वरं यथा भवति तथेति क्रियाविशेषणम् ॥ ८१ ॥ भुजङ्गवल्लीदलनालिकेर___ वस्त्रादिके वस्तुनि दीयमाने । पदे पदे पुष्कललक्ष्मिदानैः सार्थेऽर्थिनामध्वनि तोष्यमाणे ॥ ८२ ॥ भुजङ्गवल्लीनां नागलतानां, यानि दलानि पत्राणि पुननालिकेरवस्त्राणि प्रतीतानि, तदादिके तत्ममुखे, वस्तुनि दीयमाने सति । पुनः, पदे पदे इति स्थाने स्थाने विश्रामादाने, पुष्कललक्ष्म्या बहुलक्ष्म्या दानैर्वितरणैः, अर्थिनां सार्थे समूहे, अध्वनि पथि, तोष्यमाणे सति ॥ ८२ ॥ पुरः पुरः पौरनरेषु शीघ्र गच्छत्स्वनाभरणाद्भुतेषु । अमन्दमानन्दभरेण माता पित्रोर्मनस्सद्मनि पूर्यमाणे ॥ ८३ ॥ अनाभरणाद्भुतेषु बहुमूल्यभूषणभूषितत्वादाश्चर्यकारिषु, पौरनरेषु नागरजनेषु, पुरः पुरोअतोऽग्रतः, शीघ्र गच्छत्सु बजत्सु सत्सु । पुनः अमन्दं यथास्यात् तथा, आनन्दभरेण हर्षप्रकर्षेण, मातापित्रोर्जननीजनकयोः, मनःसबनि इदयमन्दिरे, पूर्यमाणे सति ॥ ८३॥ अथ काव्यत्रयेण कुमारस्य वर्णनमाह.. ताम्बूलपूर्णास्य उदारपुष्प- . .
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy