SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २२४ विनयमजस्त्याम् । वातवारितसदातपतापे। लोकयन् नगरवर्त्मनि लोकान् संचचार जयसिंहकुमारः ॥ ७१ ॥ नगरवमनि पुरमार्गे, कीदृशे, गन्धबन्धुरः सुगन्धिर्यः पयोभरस्तस्य यः सेकः सेचनं तेनाऽत्यन्तं शान्तः शमितः पृथुर्विस्तीर्णः पौरपरागः पुररेणुर्यत्र तस्मिन् , पुनर्नगरवमनि कि०, लोकलोचनचयस्य जननयनन्दस्य उत्सवप्रायाणि यानि नृत्यन्ति वातादिना वेल्लन्ति तोरणानि तत्र प्रगुणाः पटूकृताः काञ्चनकुम्भा यस्मिंस्तस्मिन् ॥ ७० ॥ पुनर्नगरवर्त्मनि कि०, मण्डपे विचित्रवस्त्रादिमण्डिते उल्लसन्तो ये दुकूलवाताः पट्टकूलपटलास्तैर्वारितः सदाऽऽतपस्य विद्यमानोपतापस्य निरन्तरातपस्य वा ताफः कष्टं यस्मिंस्तस्मिन् नगरपये, लोकान् नरनारीरूपान् नागरजनान्, लोकयन् निभालयन् , जयसिंहकुमारः संचचाराऽचलत् , तपस्यार्थमिति। इति युम्मव्याख्या ॥ ७१ ॥ स्वर्णमौक्तिकमणिप्रकरोद्यद् भूरिभूषणविभूषितदेहा। दानमर्थिनिवहाय ददाना मूर्तिभृत् सुरलतेव रथस्था ॥ ७२ ।। चीनचीररुचिरा फणिवल्ली पत्रपूर्णवदना. वनजाक्षी। वारिराशिदुहिता किमु साक्षा दन्वगात तनुजमेनमथाम्बा ? ॥ ३ ॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy