SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः। क्रमात् कुमारो वरलेखशाला द्वारं श्रियां धाम समाजगाम ॥ ८६ ॥ “उत्साहोत्सवयोः क्षणः" इत्याधुक्तेः शस्तः प्रशस्तः क्षण उत्साहो येषु तैः, अथवा शस्तः क्षण उत्सवो येभ्यस्तैः शस्तक्षणैः, ईक्षणवीक्षणैर्लोचनालोकनैः, स्वैः स्वकीयैः, तां पुरी, नारदपुरी नगरी, कीदृशीं पुण्यस्य धर्मस्य, पुरं गृहं, पावयन् पवित्रयन् , क्रमात् शनैः शनैर्गच्छन् , कुमारो जयसिंहः, वरा प्रधाना या लेखशाला अध्यापकधाम तवारं, किं० श्रियां धाम शोभाऽऽस्पदं,शृङ्गारितत्वात् ; समाजगाम प्राप्तवान् । इति व्याख्यातमन्त्यक्रियं षभिः कुलकम् ॥ ८६ ॥ • अथ किपद्भिः काव्यैः कुमारस्य लेखशालाप्रवेशपाठादि वर्णयतिउत्तीर्य चातुर्यनिधिः स कुम्भि कुम्भस्थलात् कुम्भ इवामराणाम् । यच्छन् मनःकामितमर्थमुच्चै... स्तांप्राविशत् पण्डितलेखशालाम् ॥ ८७ ॥ स जयसिंहकुमारः, कीदृशः, चातुर्यस्य वैदग्ध्यस्य, निधिनिधानं, कुम्भिनो हस्तिनः, कुम्भस्थलात् उत्तीर्य, अमराणां कुम्भ इव कामघट इव, मनःकामितं चेतश्चिन्तितं, अर्थ वित्तं, यच्छन् वितरन् , याचकेभ्य इति शेषः । तां पण्डितलेखशाला प्राविशसविष्ट इति ॥ ८७॥ आनर्च तत्र श्रुतदेवतां स मुक्ताफलैः काञ्चनभूषणैश्च । यदर्चिता कल्पलतेव दत्ते . . .
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy