SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ #co विजयप्रशस्त्वाम् । इन्दुः कलानामिव सुन्दरश्रिया मेवं महानां पदमस्ति तत् पुरम् ॥ ५६ ॥ तत् पुरं नगरं एवं महानामुत्सवानां पदमस्ति इत्यन्वयः । एवमिति किमित्याशङ्काव्यपोहायाह--अपां पानीयानां अब्धिरिव समुद्र इव दिवौकसां पदवी देवमार्ग आकाशमिति यावत्; भानां नक्षत्राणां, पुनः, अहपतिः सूर्य इव अर्चिषां किरणानां, इन्दुश्चन्द्रः कलानामिव तथा तत्पुरं सुन्दरश्रियां मनोहरशोभानां, महोत्सवानां पदमस्तीति ।। ५६ ।। इति सङ्केन विधीयमानमुत्सवमुक्त्वा पदस्थापनाकारिणं श्रेष्ठिनं तन्निर्मितोत्सवं च वर्णयति अहम्मदावादभवेभ्यसंसदां मुख्यो ग्रहाणामिव पद्मिनीपतिः । सदा सदादेयवचा वचः कलाविलासशीलोऽधिपतिर्गिरामिव ॥ ५७ ॥ उदारचेतास्तपनात्मभूरिव श्रियोऽधिभर्त्ता च गदाग्रभूरिव । मूलाभिधो मूलमिव स्फुरन्मुदां श्रेष्ठीति दध्यौ हृदि धर्मधीरथ ॥ ५८ ॥ अहम्मदाबादभवेभ्यसंसदां श्रीराजनगरीयव्यवहारिसदसौ मुख्यो, यथा ग्रहाणामङ्गारकादीनां पद्मिनीपतिरिव रविरिव, पुनः सदा नित्यं सद्भिरादेयं वचो यस्य स सदादेयवचाः, पुनः, गिरामधिपतिरिव बृहस्पतिरिव, वचःकलाविलास एव शीलमस्येति सः, चाक्कलावानित्यर्थः ॥ ५७ ॥ पुनः, तपनात्मभू
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy