SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ 8 सप्तमः सर्गः। श्रीसवात्सल्यविलासकौशलं - तत्तत्पुरे तत्र महोत्सवेऽभवत् । लोका अभूवन्नमरद्रुमाः समे भुक्तिः सुधाभाऽजनि येन येन च ॥ ५४ ॥ तत्पुरे तत्रोत्सवे तत्सवात्सल्यविलासकौशलं चतुर्विधसङ्घभक्तिलीलानैपुणमभवत् , लोकेष्विति गम्यम् । तत् किमिमित्याहोत्तरार्द्धन--येन सङ्घवात्सल्यविलासकौशलेन लोकाः समे सर्वे, अमरद्रुमाः कल्पवृक्षा अभूवन् , च पुनः, भुक्तिर्येन सुधाभा पीयूषकल्पा स्वादेनाऽजनि जातेत्यर्थः ॥ ५४॥ दानैरमानैघुसृणैर्महारुणै गीतैर्विनीतैर्नटनैः सभाऽटनैः। प्रत्यट्टमार्गालयमुत्सवोत्सुक स्तदा पुरेऽभूत्प्रमनाः सना जनः ॥ ५५ ॥ अमानैः अप्रमाणैः, दानैर्वितरणैः, याचकादीनामिति शेषः। पुनः, महारुणैर्बहुरङ्गः, घुसृणैः कुङ्कुमैः, च पुनः, विनीतर्निभृतैः, गीतैर्देवगुरुगुणगानः, पुनः, नटनैः, किं०, सभाः सभ्यास्तेषां अटनं द्रष्टुमागमनं येभ्यस्तैर्नटनैः राजसभादियोग्यपात्रनृत्यैरिति, प्रत्यट्टमार्गालयं, अत्र प्रतिशब्दस्त्रिषु प्रयोज्यस्तेन प्रत्यर्ट प्रतिमार्ग प्रत्यालयं, मध्यपदलोपी समासोऽत्र; तेन प्रत्यट्टमार्गालयं उत्सवोत्सुको महोत्सवदिदृक्षुस्तदा तत्र पुरे सना सदा जनो लोकः, प्रमनाः प्रहृष्टचेता अभूत् ॥ ५५ ॥ अपामिवाब्धिः पदवी दिवौकसां भानामिवाऽहर्पतिरर्चिषामिव ।
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy