SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ विजयप्रशस्त्याए । तत्रोत्सवे पूरितरोदसीपदा ___ . गर्जारवास्तोयमुचामिवाम्बरे ॥ ५॥ तत्रोत्सवे दुन्दुभिवल्लकीलसन्मृदङ्वचादिकवाधनिस्वना भेरीवीणासन्मर्दलचङ्गादिवाबध्वनयो रेजुर्भान्ति स्मेत्यन्वयः । कि०, पूरितं भरितं, रोदसीपदं द्यावाभूम्यास्पदं यैस्ते, अमरे गगने तोयमुचां मेघानां, गर्जारवा इवेत्युत्प्रेक्ष्यते ॥ ५१ ॥ सुवर्णमुक्ताफलरत्नभूषणा बभुः पुरे तत्र महे मृगीदृशः । नन्तुं मुनीनामधिनायकस्य किं क्रमद्वयीमप्सरसः समागताः ? ॥ ५२ ॥ तत्र महे मृगीहशो हरिणीलोचना बभुरित्यन्वयः । किं०, सुवर्णमुक्ताफलरत्नभूषणाः कनकमौक्तिकमण्याभरणाः; किमित्युत्प्रेक्ष्यते-मुनीनां अधिनायकस्य यतीनां पत्युः, क्रमद्वयीं नन्तुं अप्सरसः स्वर्वेश्याः, समागता इति ॥ ५२ ॥ वीथ्यो व्यवस्तत्र महे मृगीदृशां . गीतैः स्फुरन्मञ्जुलमङ्गलागमैः । पिकाङ्गनानामिव काननान्तराऽ___ वन्यो वसन्ते प्रियपञ्चमस्वरैः ॥ ५३ ॥ तत्रोत्सवे मृगीदृशां स्त्रीणां, गीतः वीथ्यो राजमार्गत्रिकचतुष्कचत्वरादिकमार्गाः, वभुः शोभन्ते स्मेत्यन्वयः । गीतैः किं०, स्फुरन्मञ्जुलानि यानि मङ्गलानि तेषामागमो येभ्यस्तैः, वसन्ते चैत्रवैशाखरूपे ऋतुविशेष, पिकाङ्गनानां कोकिलानां प्रियपञ्चमस्वरैः मनोज्ञपञ्चमध्वनिभिः, काननान्तराज्वन्यो वनमध्यभूमय इवेत्युत्मेक्षादृष्टान्तौ ॥ ५३ ।।
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy